________________
-६२ ]
२६. प्राणायामः
1364 ) क्षितिबीजसमाक्रान्तं द्रुतमसमप्रभम् । स्याद्वज्रलाञ्छनोपेतं चतुरस्र धरापुरम् ॥५९ 1365 ) अर्धचन्द्रसमाकारं वारुणाक्षरलक्षितम् ।
क्षरत्सुधाम्बुससिक्तं चन्द्राभं वारुणं पुरम् ||६० 1366 ) सुवृत्तं बिन्दुसंकीर्णं नीलाञ्जनसमप्रभम् । चञ्चलं पवनोपेतं दुर्लक्ष्यं वायुमण्डलम् ||६१ 1367 ) स्फुलिङ्गपिङ्गलं भीममूर्ध्वज्वालाशताचितम् । त्रिकोणं स्वस्तिकोपेतं तद्वीजं वह्निमण्डलम् ॥ ६२
1364 ) क्षितिबोज - धरापुरं क्षितिबीजसमाक्रान्तम् । पुनः कीदृशम् । द्रुतमसमप्रभम् । पुनः कीदृशम्। स्यात् वज्रलाञ्छनोपेतं वज्रलक्ष्मसहितम् । पुनः कीदृशम् । चतुरस्रं संस्थानम् । इति सूत्रार्थः ||१९|| अथ वारुणमण्डलमाह ।
४६३
1365 ) अर्धचन्द्र - वारुणपुरं वारुणतत्त्वमण्डलम् । कीदृशम् । अर्धचन्द्रसमाकारम् । पुनः कीदृशम् । वारुणाक्षरलक्षितम् । पुनः कीदृशम् । " क्षीरसुधाम्बुसंसिक्तं, चन्द्राभम् । सुगमम् । इति सूत्रार्थः ||६०|| अथ वायुमण्डलमाह ।
1366 ) सुवृत्तं - वायुमण्डलम् एतादृशं भवति । सुवृत्तं वर्तुलाकारम् । बिन्दुसंकीर्ण बिन्दुव्याप्तम् । पुनः कीदृशम् । नीलाञ्जनघनप्रभं# कालाञ्जनमेघसदृशम् । पुनः कीदृशम् । चञ्चलम्, पवनोपेतम्, दुर्लक्षम् । इति सूत्रार्थः ||६१ || अथ वह्निमण्डलमाह ।
1367 ) स्फुलिङ्ग - वह्निमण्डलं तद्बीजं वह्निबीजम् । कीदृशम् । स्फुलिङ्गपिङ्गलम् अग्निकण रक्तस्याभम् । कीदृशम् । भीमं रौद्रम् । पुनः । ऊर्ध्वज्वालाशताचितं सुगमम् । कीदृशम् । त्रिकोणं स्वस्तिकोपेतं स्वस्तिकाकारम् । इति सूत्रार्थः ||६२|| अथ तेषु वायुप्रवर्तनमाह ।
Jain Education International
उनमें जो मण्डल पृथिवी बीज ( 'क्ष' अक्षर ) से व्याप्त, तपे हुए सुवर्णके समान कान्तिवाला, वज्रके चिह्नसे संयुक्त और चौकोण है उसे पार्थिवपुर जानना चाहिए || ५९ ॥
अर्धचन्द्र के समान आकारवाला, वारुण (व) अक्षरसे चिह्नित, प्रकाशमान अमृतजलसे सींचा हुआ और चन्द्रमाके समान कान्तिवाला वारुणपुर है ||६०॥
जो मण्डल अतिशय गोल, बिन्दुओंसे व्याप्त, नीले आंजनके समान कान्तिवाला, चंचल, कष्टसे देखने योग्य और वायुसे परिपूर्ण होता है वह वायुमण्डल कहा जाता है ||६१||
जो मण्डल अग्निकणोंके समान पीत वर्णवाला, भयानक, ऊपर उठती हुई सैकड़ों ज्वालाओंसे संयुक्त, त्रिकोण आकृतिवाला, स्वस्तिक ( सांथिया ) चिह्नसे सहित और अग्निबीज (अक्षर) चिह्नित होता है उसे आग्नेय मण्डल जानना चाहिए | ६२ ||
१. SKY R स्फुरत्सु । २N संसक्तं । ३. All others except P 'जनघनप्रभं ।
For Private & Personal Use Only
www.jainelibrary.org