________________
-११]
२६. प्राणायामः 1309 ) यत्र रागादयो दोषा अजस्र यान्ति लाघवम् ।
तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः ॥८ 1310 ) दारुपट्टे शिलापट्टे भूमौ वा सिकतास्थले ।
समाधिसिद्धये धीरो विदध्यात् सुस्थिरासनम् ॥९ 1311 ) पर्यङ्कमर्धपर्यत वज्रं वीरासनं तथा ।
सुखारविन्दपूर्वे च कायोत्सर्गश्च संमतः ॥१० 1312 ) येन येन सुखासीना विदध्युनिश्चलं मनः ।
तत्तदेव विधेयं स्यान्मुनिभिर्वन्धुरासनम् ॥११
_1309 ) यत्र रागादयः-यत्र स्थाने रागादयो दोषा अजस्रं निरन्तरं लाघवं यान्ति । तत्रैव स्थाने वसतिः साध्वी प्रधाना । ध्यानकाले विशेषतः । इति सूत्रार्थः ।।८।। अथोपवेशस्थानमाह।
_1310 ) दारुपट्टे-दारुपट्टे काष्ठपट्टे । शिलापट्टे प्रसिद्धम् । भूमौ वा सिकतास्थले धूलिस्थाने। शेष सुगमम् ।।९।। अथ पुनरपि शासनमाह।
1311 ) पर्यङ्कम्-पर्यङ्गं पर्यङ्कासनम् । अर्धपर्यङ्कम् अर्धपर्यङ्कासनम् । वज्रासनं, वीरासनम्। मुखारविन्दपूर्वे च मुखारविन्दाकारपूर्वे । कायोत्सर्गश्च संमतः कथितः । इति सूत्रार्थः ॥१०॥ अथ पुनरपि आसनविशेषमाह।
____1312 ) येन येन-येन येनासनेन सुखासीना निश्चलं मनो विदधुः। मुनिभिः तत्तदेवासनं बन्धुरं विधेयं स्यात् । इति सूत्रार्थः ।।११।। पुनरासनविशेषमाह ।
___ जहाँपर रागादिक दोष निरन्तर हानिको प्राप्त होते हैं, ध्यानके समयमें वहींपर अवस्थित रहना विशेष रूपसे उत्तम है ।।८।।
धीर योगीको ध्यानकी सिद्धिके लिए लकड़ीके पटियेपर, शिलापट्टपर, पृथिवीके ऊपर अथवा बालुमय स्थलके ऊपर अतिशय दृढ़ आसन ग्रहण करना चाहिए । ९॥
पर्यक आसन, अर्ध पर्यंक आसन, वज्रासन, वीरासन, सुखपूर्व आसन ( सुखासन) और अरविन्दपूर्व आसन ( पद्मासन ); ये आसन ध्यानके लिए अभीष्ट माने गये हैं ॥१०॥
जिस-जिस आसनसे सुखपूर्वक स्थित होकर मनको स्थिर किया जा सकता है, मनिजनोंके लिए उस उस रमणीय आसनको ग्रहण करना चाहिए ॥१२॥
१. M N वीरो। २. T सुखासीनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org