________________
[२४.३५
ज्ञानार्णवः 1259 ) करता दण्डपारुष्यं वश्चकत्वं कठोरता।
निस्त्रिंशत्वं च लिङ्गानि रौद्रस्योक्तानि सूरिभिः ॥३५ 1260 ) विस्फुलिङ्गनिभे नेत्रे भ्रूवक्रा भीषणाकृतिः ।
कम्पस्वेदादिलिङ्गानि रौद्रे बाह्यानि देहिनाम् ॥३६ 1261 ) क्षायोपशमिको भावः कालश्चान्तर्मुहूर्तिकः ।
दुष्टाशयवशादेतदप्रशस्तावलम्बनम् ।।३७ 1262 ) दहत्येव क्षणार्धेन देहिनामिदमुत्थितम् ।
असद्ध थानं त्रिलोकश्रीप्रसवं धर्मपादपम् ॥३८
1259 ) क्रूरता-[रौद्रस्य लिङ्गानि चिह्नानि सूरिभिः पण्डितैः उक्तानि कथितानि। कानि। क्रूरता, दण्डपारुष्यं शिक्षाकठोरत्वं, वञ्चकत्वं परवञ्चना, कठोरता, निस्त्रिंशत्वं निर्दयत्वं एतानि तानि इत्यर्थः ] ॥३५॥ अथ रौद्रबाह्यलिङ्गानि दर्शयति ।
___1260 ) विस्फुलिङ्ग-देहिनां प्राणिनां रौद्रे रौद्रध्याने बाह्यानि लिङ्गानि वर्तन्ते। कानि । विस्फुलिङ्गनिभे अङ्गारसदृशनेत्रे । शेषं सुगमम् । इति सूत्रार्थः ॥३६॥ अथ रौद्रे भावादिकमाह। .
___1261 ) क्षायोपशमिक:-रौद्रे भावः । कः । क्षायोपशमिकः । च पुनः अन्तर्मुहूर्तकालः । एतद्रौद्रम् अप्रशस्तावलम्बनम् अशुभाध्यवसायालम्बनम् । कस्मात् । दुष्टाशयवशात् दुष्टचित्ताभिप्रायात् । इति सूत्रार्थः ॥३७।। अथ ध्यानस्य दुष्टत्वमाह ।
__1262 ) दहत्येव-देहिनाम् इदम् असद्ध्यानम् उत्थितं सत् धर्मपादपं धर्मतरुं क्षणार्धन दहत्येव । कीदृशं धर्मपादपम् । त्रिलोकश्रीप्रसवं जगत्त्रयश्रीजनकम् । इति सूत्रार्थः ।।३८।। अथार्तरौद्रध्यानमुपसंहरति।
दुष्टता, दण्डकी कठोरता, धूर्तता, कठोरता और स्वभावमें निर्दयता; ये आचार्योंके द्वारा उस रौद्रध्यानके अभ्यन्तर चिह्न कहे गये हैं ॥३५॥ - अग्निके कणके समान लाल नेत्र, भृकुटियोंकी कुटिलता, शरीरकी भयानक आकृति, काँपना और पसीना आना इत्यादि रौद्रध्यानके समय प्राणियोंके बाह्य चिह्न होते हैं । ३६।
__दुष्ट अभिप्रायसे उत्पन्न होकर निन्द्य वस्तुका आलम्बन लेनेवाला वह रौद्रध्यान क्षायोपशमिक भाव है व काल उसका अन्तर्मुहूर्त प्रमाण है ॥३७||
. यह निन्द्य ध्यान उत्पन्न होकर प्राणियोंके तीनों लोकोंकी लक्ष्मीको उत्पन्न करनेवाले धर्मरूप वृक्षको आधे क्षणमें ही जलाकर भस्म कर देता है ।।३८।।
१. All others except PM कम्पः । २. Y लम्बिनां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org