________________
?
-४० ]
२३. आतध्यानम्
1218 ) संयतासंयतेष्वेतच्चतुर्भेदं प्रजायते । प्रमत्तसंयतानां तु निदानरहितं त्रिधा ॥ ३७ 1219 ) कृष्णनीलाद्यसल्लेश्याबलेन प्रविजृम्भते ।
इदं दुरितदावार्चिः प्रसूतेरिन्धनोपमम् ॥ ३८ 1220 ) एतद्विनापि यत्नेन स्वयमेव प्रसूयते ।
अनाद्य सत्समुद्भूतसंस्कारादेव देहिनाम् ॥ ३९ 1221 ) अनन्तदुःखसंकीर्णमस्य तिर्यग्गतिः फलम् । क्षायोपशमिको भावः कालश्चान्तर्मुहूर्तकः ॥४०
1218 ) संयतासंयतेषु – एतच्चतुर्भेदमपि ध्यानं संयतासंयतेषु प्रजायते । तु पुनः । प्रमत्तसंयतानां निदानरहितं चतुर्भेदरहितं त्रिधा भवति । इति सूत्रार्थः ||३७|| अथ पुनस्तस्यैव
स्वरूपमाह ।
1219 ) कृष्णनीलादि - इदं ध्यानं प्रविजृम्भते प्रसरति । केन । कृष्णनीलाद्यसल्लेश्याबलेन कृष्णनीलादिअशुद्धलेश्याबलेन । कीदृशम् । दुरितदावाचिः प्रसूतेः पापदावाग्निजन्मनः इन्धनोपमम् इन्धनसदृशम् । इति सूत्रार्थः ||३८|| अथ पुनरप्येतत्स्वरूपमाह ।
1220 ) एतद्विनापि - एतदार्तं यत्नेनापि विना प्रसूयते उत्पद्यते । केषाम् । देहिनां प्राणिनाम् अनाद्यसत्समुद्भूतसंस्कारात् अनादिकालोत्पन्नवासनात् । इति सूत्रार्थः ॥ ३९ ॥ अथास्य फलमाह ।
1221 ) अनन्त — अस्यार्तस्य तिर्यग्गतिः फलम् । कीदृशम् । अनन्तदुःखसंकीर्णम् अनन्तदुःखव्याप्तम् । एतस्य भावः कः । क्षायोपशमिकः । च पुनः । अन्तर्मुहूर्तकः । इति सूत्रार्थः ॥४०॥ अथार्तध्यानचिह्नानि दर्शयति ।
४२१
वह संयतासंयतोंमें—प्रथम पाँच गुणस्थानोंमें— उपर्युक्त चारों भेदोंसे संयुक्त रहता है। परन्तु प्रमत्तसंयत जीवोंके वह निदानभेदसे रहित शेष तीन भेदयुक्त पाया जाता है ||३७||
जिस प्रकार ईंधन दावानलकी ज्वालाको विस्तृत करता है उसी प्रकार यह आर्तध्यान पापरूप अग्निकी ज्वालाको विस्तृत करता है । वह कृष्ण और नील आदि अशुभ लेश्याके बसे वृद्धिंगत होता है ||३८||
यह प्राणियों के बिना प्रयत्नके ही अनादि कालसे उत्पन्न हुए दुष्ट संस्कार के वश स्वयं उत्पन्न होता है ॥ ३९ ॥
Jain Education International
इस ध्यानका फल अनन्त दुःखोंसे व्याप्त तिर्यंच गतिकी प्राप्ति है । यह क्षायोपशमिक भाव है और काल इसका अन्तर्मुहूर्त है ||४०||
१. N संसारादेव । २. All others except PM NF गते: । ३. MNT मुहूर्तिकः ।
For Private & Personal Use Only
www.jainelibrary.org