________________
४२०
ज्ञानार्णवः
[ २३.३४
1215 ) इष्टभोगादिसिद्ध्यर्थं रिपुघातार्थमेव वा ।
यन्निदानं मनुष्याणां स्यादार्तं तत्तुरीयकम् ||३४|| [ चतुथम् ] 1216 ) इत्थं चतुर्भिः प्रथितैर्विकल्पैरार्तं समासादिह हि प्रणीतम् । अनन्त जीवाशय भेदभिन्नं ब्रूते समग्रं यदि वीरनाथः ॥ ३५ 1217 ) अपथ्यमपि पर्यन्ते रम्यमप्यग्रिमक्षणे ।
विद्धयसद्ध्यानमेतद्धि षड्गुणस्थान भूमिकम् ||३६
देवानां पदं स्थानमभिलषति वाञ्छति । कैः । पुण्यानुष्ठानजातैः पुण्याचरितसमूहैः । वा अथवा । यत्तैरेव विकल्पैः अत्यन्तकोपात् अहितकुलकुजच्छेदं शत्रुकुलच्छेदनं वाञ्छति । वा अथवा पूजासत्कारलाभप्रभृतिकं याचते । विकल्पैरिति सर्वत्र योज्यम् । इति सूत्रार्थः ||३३|| अथ चतुर्थभेदमुपसंहरन्नाह ।
1215 ) इष्टभोगादि - तत्तृतीयकं मनुष्याणां यन्निदानं स्यात् । किमर्थम् । इष्टभोगादिसिद्ध्यर्थं सुगमम् । वा अथवा । रिपुघातार्थं च मे स्यात् । इति सूत्रार्थः ||३४|| अथ चतुर्भेदध्यानमुपसंहरति । 1216 ) इत्थं चतुभिः - इह हि निश्चितं इत्थममुना प्रकारेण आर्तं समासात् संक्षेपतः प्रणीतं कथितम् । कैः । विकल्पैश्चतुभिः । प्रथितैर्विश्रुतैः । यदि वीरनाथः समग्रम् अनन्तजीवाशयभेदभिन्नम् अनन्तजीवाध्यवसायभेदभिन्नम् । इति सूत्रार्थः ॥ ३५ ॥ अथ ध्यानस्वरूपमाह !
1217 ) अपथ्यमपि - हि निश्चितम् । एतद् ध्यानं विद्धि जानीहि । कीदृशम् । षड्गुणस्थानभूमिकम् अपथ्यमपि पर्यन्ते उदयकाले अग्रिमक्षणे प्रथमसमये रम्यं मनोज्ञम् । इति सूत्रार्थः ||३६|| अथ गुणस्थानवर्तित्वमाह ।
समूहरूप वृक्षों के विनाशकी अभिलाषा की जाती है, अथवा विविध प्रकारके विचारों द्वारा जो पूजा, सत्कार और लाभ आदिकी प्रार्थना की जाती है; वह निदानजन्य आर्तध्यान है जो यहाँ प्राणियों के दुखरूप दावानलका उत्कृष्ट स्थान है ||३३||
अष्ट भोगraint सिद्धिके लिए अथवा शत्रुओंके घातके निमित्त भी जो मनुष्योंकी अभिलाषा होती है वह चौथा ( निदानजन्य ) आर्तध्यान है ||३४||
Jain Education International
इस प्रकार उक्त चार प्रसिद्ध भेदोंके साथ यहाँ संक्षेपसे आर्तध्यानका निरूपण किया गया है । वैसे जीव अनन्त तथा उनके अभिप्राय भी चूँकि अनन्त हैं, अतएव उक्त आर्तध्यानके भी अनन्त भेद हो जाते हैं । उनका यदि पूर्णरूपसे कोई निरूपण कर सकता है तो वे वीर जिनेन्द्र ही कर सकते हैं, अन्य कोई छद्मस्थ उसका पूर्णतया निरूपण नहीं कर सकता है ||३५||
यह असमीचीन आर्तध्यान यद्यपि प्रथम क्षणमें रम्य प्रतीत होता है, फिर भी वह परिणाममें अहितकारक ही है, यह जान लेना चाहिए। वह प्रथम छह गुणस्थानों में पाया जाता है ||३६||
१. T च for वा । २. M L चतुर्थम् । ३. M अपथ्यमिति ।
For Private & Personal Use Only
www.jainelibrary.org