________________
४२२
ज्ञानार्णवः
1222 ) शङ्काशोकभयप्रमादकलहेश्चिन्लोभ्रमोद्भ्रान्तय उन्मादो विषयोत्सुकत्वमसकृनिद्राङ्गजाड्यं श्रमाः । मूर्च्छादीनि शरीरिणामविरतं लिङ्गानि बाह्यान्यलमार्ताधिष्ठितचेतसां श्रुतधरैर्व्यावर्णितानि स्फुटम् ॥ ४१ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य - श्रीशुभचन्द्रविरचिते आर्तध्यानप्रकरणम् ||२३||
1222 ) शङ्काशोक – आर्ताधिष्ठितचेतसाम् आर्तध्यानव्याप्तचित्तानां शरीरिणामविरतं निरन्तरं लिङ्गानि चिह्नानि श्रुतधरैर्गौतमादिभिः स्फुटं प्रगटं व्यावणितानि कथितानि । कानि तानि । शङ्काशोकभयप्रमादकलहाः, शङ्का वस्तुसंदेहः, शोकः प्रसिद्धः, भयं प्रसिद्धम्, प्रमादकलहावपि प्रसिद्धौ । पुनः कानि लिङ्गानि । चिन्ताभ्रमोद्भ्रान्तयः, सुगमम् । पुनः कानि । उन्मादो कान्दर्पनितो धर्मः, विषयोत्सुकत्वम् इन्द्रियसुखोत्कण्ठा, असकृद् वारंवारम् । निद्राङ्गजाद्या: * श्रमाः । पुनः कानि । मूर्च्छादीनि । एतानि सर्वविशेषणानि आर्तस्य लिङ्गानि भवन्ति । बाह्यानलं बाह्यशरीरसंतापः । इति सूत्रार्थः ॥ ४१ ॥
[ २३.४१
इति श्री शुभचन्द्राचार्यविरचिते ज्ञानार्णवमूलसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा तत्पुत्र- साहटोडर तत्पुत्र- साहश्रीरिषिदासेन स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितम् आर्तिध्यानप्रकरणं समाप्तम् ।। २३ ।।
समाबभूव श्रीपार्श्वः तत्पुत्रटोडरो भूतः । जीयादिह रिषिदासः गतार्तध्यानसंसारः ||१|| अथ रौद्रध्यानं सभेदमाह ।
शंका, शोक, भय, प्रमाद, झगड़ालु वृत्ति, चिन्ता, भ्रान्ति, व्याकुलता, पागलपन, विषयोंकी अभिलाषा, निरन्तर निद्रा, शरीरकी जड़ता, परिश्रम और मूर्छा आदि; ये उस आर्तध्यान से आक्रान्त मनवाले प्राणियों के निरन्तर बाह्य चिह्न होते हैं जो स्पष्टतया पूर्णश्रुतके धारक गणधरोंके द्वारा कहे गये हैं || ४१ ॥
इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकार में आर्तध्यान प्रकरण समाप्त हुआ || २३ ॥
Jain Education International
१. MN L T F K कलहा । २. SJ X Y R चित्त । ३. PM जाद्य, T F K जाद्या: ।
For Private & Personal Use Only
www.jainelibrary.org