SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४०० ज्ञानार्णवः (1157) आशाः सद्यो विपद्यन्ते' यान्त्यविद्याः क्षयं क्षणात् । म्रियते चित्तभोगोन्द्रो यस्यां सा साम्यभावना ॥ ११ 1158 ) साम्यकोटिं समारूढो यमी जयति कर्म यत् । निमेषान्तेन तज्जन्मकोटिभिस्त पसेतरः ॥ १२ 1159 ) साम्यमेव परं ध्यानं प्रणीतं विश्वदर्शिभिः । तस्यैव व्यक्तये नूनं मन्ये ऽयं शास्त्रविस्तरः ||१३ 1160 ) साम्यभावितभावानां स्यात्सुखं यन्मनीषिणाम् । तन्मन्ये ज्ञानसाम्राज्यसमत्वमवलम्बते ||१४ 1157 ) आशाः सद्यः - यस्य पुंसः आशाः वाञ्छाः सद्यः शीघ्रं विपद्यन्ते विनश्यन्ति । क्षणात् अविद्या : अज्ञानानि क्षयं यान्ति । यस्य चित्तभोगीन्द्रो म्रियते, तस्य सा साम्यभावना वर्तते । इति सूत्रार्थः || ११|| अथ साम्यावस्थावतो कर्माभावमाह । [ २२.११ 1158) साम्यकोटि-यमी व्रती यत्कर्म निमेषान्तेन जयति । कीदृशो यमी । * साम्यकोटिसमारूढः साम्यभावस्थितः । तत्कर्म इतरः साम्यभावनारहितः तपसा जन्मकोटिभिर्न जयति । इति सूत्रार्थः ॥ १२ ॥ अथ साम्यस्य ध्यानकारणत्वमाह । 1159 ) साम्यमेव - विश्वदर्शिभिः सर्वज्ञः साम्यमेव परं ध्यानं प्रणीतं कथितम् । नूनं निश्चितम् । तस्यैव व्यक्तये साम्यस्य प्रगटनायायं शास्त्रविस्तरः । इत्यहं मन्ये । इति सूत्रार्थः ॥ १३ ॥ अथ साम्यजनितफलमाह । 1160 ) साम्यभावित - मनीषिणां पण्डितानां यत्सुखं स्यात् । कीदृशां मनीषिणाम् । जिसके होनेपर जीवकी सब इच्छाएँ शीघ्र नष्ट हो जाती हैं, अविद्याएँ (मिथ्या दुरभि - निवेश ) क्षणभर में क्षीण हो जाती हैं, तथा मनरूप महाभयानक सर्प मर जाता है उसका नाम साम्यभावना है ||११|| समृताभावके अग्रभागपर – शिखरपर - आरूढ़ हुआ योगी जिस कर्मको निमेष (नेत्रकी टिमकार) मात्र कालके भीतर - क्षणभर में ही — जीत लेता है उसीको उक्त समताभावसे रहित अन्य जीव तपश्चरणके द्वारा करोड़ों जन्मोंमें जीत पाता है || १२ || समस्त लोकके ज्ञाता द्रष्टा सर्वज्ञ देवने एक साम्यभावको ही उत्कृष्ट ध्यान निरूपित किया है । यह शास्त्रविस्तार तो निश्चयसे उसी साम्यभावके प्रकट करनेके लिए है, ऐसा मैं मानता हूँ ||१३|| साम्यभावसे पदार्थों का चिन्तन करनेवाले बुद्धिमान् महापुरुषोंको जो सुख प्राप्त होता है वह ज्ञानके साम्राज्य ( केवलज्ञान ) की समानताका आश्रय लेता है, ऐसा मैं मानता हूँ । Jain Education International १. F विलीयन्ते । २. FJ Y रागादिरिपुभिः सार्धं यस्य सा । ३. All others except P यस्य । ४. All others except PM N निमिषा । ५. M साम्राज्यं समत्वं । For Private & Personal Use Only ' www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy