________________
XXII [ साम्यवैभवम् ]
1147 ) मोहवह्निमपाकर्तुं स्वीकतु संयमश्रियम् ।
छेत्तं रागद्रमोद्यानं समत्वमवलम्ब्यताम् ॥१ 1148 ) चिदचिल्लक्षणैर्भावरिष्टानिष्टतया स्थितैः ।
न मुह्यति मनो यस्य तस्य साम्ये स्थितिर्भवेत् ॥२ 1149 ) विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् ।
समत्वं भज सर्वज्ञज्ञानलक्ष्मीकुलास्पदम् ॥३
1147 ) मोहवह्निम्-हे भव्य, शमत्वम् उपशमत्वम् अवलम्ब्यताम् आश्रयताम्। कि कर्तुम् । मोहवह्नि मोहाग्निम् अपाकर्तुम् । पुनः किं कर्तुम् । संयमश्रियं स्वीकर्तुम् अङ्गीकर्तुम् । पूनः किं कर्तम् । रागद्र मोद्यानं छत्तम् । इति सूत्रार्थः ॥२॥ अथ मनसो मोहाभावफलमाह।
____1148 ) चिवचिल्लक्षणैः–यस्य पुंसः मनः चित्तं न मुह्यति मोहं न याति । कैः। भावैः पदार्थैः । कीदृशैः । चिदचिल्लक्षणैः ज्ञानाज्ञानरूपैः । पुनः कीदृशैः । इष्टानिष्टतया अभीष्टानभीष्टतया स्थितैः । तस्य पुंसः साम्ये समतायां स्थितिरवस्थानं भवेदिति सूत्रार्थः ।।२।। अथ सम्यक्त्वफलमाह।
___1149 ) विरज्य-हे [ भव्य ], समत्वं समतां भज सेवय । किं कृत्वा । कामभोगेषु विरज्य विरक्तीभूय । पुनः किं कृत्वा। वपुषि स्पृहां ममत्वं विमुच्य त्यक्त्वा। कीदृशम् । सर्वज्ञज्ञानलक्ष्मीकुलास्पदम् अर्हत्केवलज्ञानकमलाकुलगृहमिति सूत्रार्थः ॥३॥ अथ भवबन्धनच्छेदननिबन्धनमाह ।
हे भव्य ! तू मोहरूप अग्निको शान्त करने के लिए, संयमरूप सम्पत्तिको स्वीकार करनेके लिए और रागरूप वृक्षोंके वनको नष्ट करनेके लिए समताभावका-माध्यस्थ्य वृत्तिका अवलम्बन कर ॥१॥ + जिस महात्माका मन इष्ट और अनिष्ट रूपसे अवस्थित चेतन ( मित्र-शत्रु आदि ) व अचेतन ( कोमल शय्या व शस्त्रादि ) पदार्थोंसे मुग्ध नहीं होता है वही साम्यभावमें स्थित रह सकता है ॥२॥
हे भव्य ! तू विषयभोगोंसे विरक्त होकर शरीरके विषयमें निःस्पृह होता हुआ उस समताभावकी आराधना कर जो सर्वज्ञकी ज्ञानरूप लक्ष्मीके कुलगृहके समान है-सर्वज्ञकी विभूतिको प्राप्त करानेवाला है ॥३।।
१. M L J शमत्व । २. M N साम्यस्थिति । ३. M शमत्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org