SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ३८९ २१. रागादिनिवारणम् 1121 ) रागाद्यभिहतं चेतः स्वतत्त्वविमुखं भवेत् । ततः प्रच्यवते क्षिप्रं ज्ञानरत्नाद्रिमस्तकात् ॥१४ 1122 ) रागद्वेषभ्रमाभावे मुक्तिमार्गे स्थिरीभवेत् । संयमी जन्मकान्तारसंक्रमक्लेशशङ्कितः ॥१५ 1123 ) रागादिभिरविश्रीन्तर्वऽच्यमानं मुहुर्मनः । न पश्यति परंज्योतिः पुण्यपापेन्धनानलम् ॥१६ चकारो विशेषणाकाङ्क्षी । कीदृशं मनः । असंक्लिष्टं क्लेशरहितम् । पुनः कीदृशम् । अविभ्रान्तं भ्रान्तिरहितम् । पुनः कीदृशम् । अविप्लुतं स्थिरीभूतम् । पुनः कीदृशम् । अनाकुलं चञ्चलत्वरहितम् । इति सूत्रार्थः ।।१३।। अथ रागाद्यभिद्रुतं चेतः आत्मतत्त्वं न वेत्तीत्याह । 1121 ) रागाद्यभिहतं-चेतो रागाद्यभिहतं रागादिपीडितं सत् स्वतत्त्वे विमुखं आत्मतत्त्वपराङमख भवेत् । ततो रागाद्याभहतचित्तत्वात् ज्ञानरत्नाद्रिमस्तकात् शुद्धबोधराहणाचलमस्तकात् क्षिप्रं शीघ्र प्रच्यवते पतति । इति सूत्रार्थः ॥१४॥ अथ रागद्वेषाभावे यत्तदाह । 1122 ) रागद्वेष-संयमी व्रती। मुक्तिमार्गे सम्यग्ज्ञानादित्रयरूपे निश्चलो भवेत् । कैः । रागद्वेषभ्रमाभावैः इष्टानिष्टवर तुविषयः तेभ्यो भ्रमः । अथवा भ्रमो भिन्नत्वेन ग्राह्यः । ततो रागश्च द्वेषश्च भ्रमश्च रागद्वेषभ्रमास्तेषामभावः, तैः । कीदृशः संयमी। जन्मकान्तारसंक्रमात् भवाटवीभ्रमणात् क्लेशशङ्कितः क्लेशभीतः । इति सूत्रार्थः ।।१५।। अथ रागादिभिर्वञ्च्यमानः परं ज्योतिः न पश्यति। 1123 ) रागादिभिः–संयमी परं प्रकृष्टं ज्योतिः स्वात्मप्रकाशं न पश्यति । कथम् । रागादिभिर्मुहुर्वारंवारं मनः वञ्च्यमानम् । अत्र सप्तम्यर्थे प्रथमा। कीदृशं मनः । अविश्रान्तं विश्रामरहितम् । कीदृशं ज्योतिः । पुण्यपापेन्धनानलं शुभाशुभकर्मेन्धनेषु अनलवदनलं, दाहकत्वात् । इति सूत्रार्थः ।।१६।। अथ पुनः रागाद्यभावफलमाह। रागादिसे आहत चित्त आत्मतत्त्वसे विमुख होता है और तब प्राणी ज्ञानरूप रत्न पर्वतके शिखरसे शीघ्र ही च्युत हो जाता है ।।१४।। संसाररूप वनमें भटकनेके क्लेशसे भयभीत हुआ मुनि राग, द्वेष एवं मोहके अभावसे मोक्षमार्गमें स्थिर हो जाता है ॥१५।। निरन्तर विद्यमान रहनेवाले रागादिकोंके द्वारा बार-बार ठगा गया मन उस उत्कृष्ट ज्योतिको नहीं देखता है जो कि पुण्य-पापरूप ईंधनके भस्म करने में अग्निके समान है ।।१६।। १. LT रागादिभिर्हतं । २. All others except P रविश्रान्तं । ३.J बन्ध्यमानं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy