SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३८८ ज्ञानार्णवः [ २१.१०२१1117 ) [मूर्खास्तपोभिः क्रशयन्ति देहं बुधा मनो देहविकारहेतुम् । श्वा क्षिप्तमस्त्रं ग्रसते ऽतिकोपात् क्षेप्तारमस्त्रस्य निहन्ति सिंहः॥१०*१] 1118 ) मोहपङ्के परिक्षीणे प्रशान्ते रागविभ्रमे ।। पश्यन्ति यमिनः स्वस्मिन् स्वरूपं परमात्मनः ।।११ 1119 ) महाप्रशमसंग्रामे शिवश्रीसंगमोत्सुकैः । योगिभिर्ज्ञानशस्त्रेण रागमल्लो निपातितः ॥१२ 1120 ) असंक्लिष्टमविभ्रान्तमविप्लुतमनाकुलम् । निश्चलं च मनः कृत्वा वस्तुतत्त्वं निरूपय ॥१३ 1117 ) मूर्खास्तपोभिः---मूर्खाः तपोभिः तपांसि कृत्वा देहं क्रशयन्ति कृशं कुर्वन्ति । किन्तु बुधाः विद्वांसः देहविकारहेतुं देहविकारकारणं मनः कृशं कुर्वन्ति । तदर्थं दृष्टान्तमाह। यथा श्वा कुक्कुरः स्वस्मिन् क्षिप्तम् अस्त्रम् अतिक्रोधात् ग्रसति किंतु सिंहः अस्त्रस्य क्षेप्तारं मनुजमेव निहन्ति । इति सूत्रार्थः ।।१०+१॥ ] अथ स्वस्वरूपोपलब्धिमाह।। 1118 ) मोहपङ्के-यमिनो वतिनः परमात्मनः स्वरूपं स्वस्मिन् पश्यन्ति शुद्धबोधतया । कीदृशे स्वस्मिन् । मोहपङ्के मोह एव पङ्कः मालिन्यकारित्वात् पङ्कः । तस्मिन् मोहपङ्के परिक्षीणे क्षये संजाते सति । पुनः क्व सति । रागविभ्रमे प्रशान्ते सति । इति सूत्रार्थः ॥११॥ अथ योगिभिर्ज्ञानेन रागादयो जेतव्या इत्याह। 1119 ) महाप्रशम-योगिभिः ज्ञानशस्त्रेण ज्ञानायुधेन रागमल्लो रागसुभटो निपातितः । क्व । महाप्रशमसंग्रामे महाशान्तिसमरे । कीदृशैः । शिवश्रीसंगमोत्सुकैः मोक्षलक्ष्मीमेलापकोत्कण्ठितैः । इति सूत्रार्थः ॥१२॥ अथ मनोनिश्चलत्वमाह । 1120 ) असंक्लिष्टम्-हे योगिन्, वस्तुतत्त्वं वस्तुस्वरूपं निरूपय। 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इति अवलोकय । किं कृत्वा । मनो इन्द्रियविषयनिवतित्वेन निश्चलं कृत्वा । [ मूर्ख लोग तप करके अपना शरीर कृश बनाते हैं, लेकिन विद्वान् लोग शरीरमें विकार बनानेवाले मनकी ही शक्ति क्षीण करते हैं। मनको जीतते हैं। जैसे कुत्ता आदमीके फेंके हुए लकड़ी आदि हथियारको क्रोधसे दंश करता है । लेकिन सिंह हथियार फेंकनेवालेको ही मार डालता है ॥१०*१॥] जिन मुनियोंका मोहरूप कीचड़ नष्ट हो चुका है तथा रागका विलास अतिशय शान्त हो चुका है वे परमात्माके स्वरूपको अपने आपमें ही देखते हैं ॥११॥ मुक्तिरूप लक्ष्मीके संयोगमें उत्सुक हुए योगियोंने राग-द्वेषके उपशमरूप घोर युद्ध में ज्ञानरूप शस्त्रके प्रहारसे रागरूप योद्धाका घात किया है ।।१२।। हे भव्य ! तू मनको संक्लेश, भ्रान्ति, उपद्रव और आकुलतासे रहित करके उसे स्थिर करता हुआ वस्तुस्वरूपका निरूपण कर ॥१३॥ १. Only in M N। २. S R स्ववशं च मनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy