________________
३९० ज्ञानार्णवः
[२१.१७1124 ) रागादिपङ्कविश्लेषात् प्रसन्ने चित्तवारिणि ।
परिस्फुरति निःशेष मुनेर्वस्तुकदम्बकम् ।।१७ 1125 ) स को ऽपि परमानन्दो वीतरागस्य जायते ।
येन लोकत्रयैश्वर्यमप्यचिन्त्यं तृणायते ॥१८ 1126 ) प्रशाम्यति विरागस्य दुर्बोधविषमग्रहः ।
__स एव वर्धते ऽजस्र रागातस्येह देहिनः ॥१९ 1127 ) स्वभावजमनातङ्क वीतरागस्य यत्सुखम् ।
न तस्यानन्तभागो ऽपि प्राप्यते त्रिदशेश्वरैः ॥२० 1124 ) रागादिपङ्क-मुनेनिशीलस्य वस्तुकदम्बकं वस्तुसमूहं निःशेषं समस्तं परिस्फुरति प्रगटीभवति । क्व सति । चित्तवारिणि मनोजले प्रसन्ने निर्मले सति । कस्मात् । रागादिपङ्कविश्लेषात् रागादिकर्दमविभागात् । इति सूत्रार्थः ।।१७।। अथ वीतरागसुखस्वरूपमाह ।
1125 ) स को ऽपि-वीतरागस्य रागद्वेषरहितस्य स को ऽपि वक्तमशक्यो ऽपि परमानन्दः स्वात्मोपलब्धिसंभवो जायते । येनानन्देन लोकत्रयैश्वर्यं जगत्त्रयसाम्राज्यम् अचिन्त्यमपि अचिन्तनीयमपि तृगायते तृणम् इव चरते । निःस्पृहत्वादित्यर्थः ।।१८।। अथ वीतरागस्य यद्भवतीत्याह।
1126 ) प्रशाम्यति-विरागस्य नीरागस्य दुर्बोधविषमग्रहः अज्ञानविकटकदाग्रहः प्रशाम्यति उपशमं याति । स एव दुर्बोधविषमग्रहः अजस्रं निरन्तरं वर्धते वृद्धि याति। इह लोके रागार्तस्य । उपलक्षणात् द्वेषो ऽपि ग्राह्यः। रागद्वेषपीडितस्य देहिनः प्राणिनः । इति सूत्रार्थः ॥१९॥ अथ वीतरागसुखस्वरूपमाह।
1127 ) स्वभाव जम्-वीतरागस्य पूर्वोक्तार्थयुक्तस्य यत्सुखं रागद्वेषाभावजनितं परमानन्दरूपम् । कीदृशं सुखम् । स्वभावजं सहजोत्पन्नम् । पुनः कीदृशम् । अनातकं निर्भयमारोग्यरूपं वा। तस्य तादृशविशेषणोपेतस्य सुखस्यानन्तभागो ऽपि त्रिदशेश्वरैर्देवेन्द्रः प्राप्यते । इति सूत्रार्थः ॥२०॥ अथ रागद्वेषयोरनन्तदुःखकारणमाह ।
रागादिरूप कीचड़के हट जानेपर निर्मलताको प्राप्त हुए मुनिके चित्त रूप जलके भीतर समस्त वस्तुओंका समूह प्रतिभासित होने लगता है ॥१७॥
उस समय उक्त वीतराग मुनिके वह कोई असाधारण उत्कृष्ट आनन्द उत्पन्न होता है जिसके कि आश्रयसे वह तीनों लोकोंके अचिन्त्य ऐश्वर्यको भी तृणके समान तुच्छ समझने लगता है ॥१८॥
जो मुनि राग-द्वेषसे रहित हो चुका है उसका मिथ्याज्ञान रूप भयानक पिशाच शान्त हो जाता है और इसके विपरीत जो प्राणी यहाँ रागसे पीड़ित होता है उसका वही मिथ्याज्ञानरूप पिशाच निरन्तर वृद्धिको प्राप्त है ॥१९॥
वीतराग मुनिको जो पीडासे रहित स्वाभाविक ( अतीन्द्रिय ) सुख प्राप्त होता है, इन्द्रोंको उसके अनन्तवें भाग मात्र भी वह सुख प्राप्त नहीं होता ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -