________________
३८०
ज्ञानार्णवः
1095 ) चित्तमेकं न शक्नोति जेतुं स्वातन्त्र्यवर्ति यः । ध्यान वार्तां ब्रुवन्मूढः स किं लोके न लज्जते ॥ २३ 1096 ) यदसाध्यं तपोनिष्ठैर्मुनिभिर्वीतमत्सरैः ।
तत्पदं प्राप्यते धीर चित्तप्रसरबन्धकैः ||२४ 1097 ) अनन्तजन्मजानेककर्मबन्धस्थितिर्दृढा ।
भावशुद्धिं प्रपन्नस्य मुनेः प्रक्षीयते क्षणात् || २५ 1098 ) यस्य चित्तं स्थिरीभूतं प्रसन्नं ज्ञानवासितम् । सिद्धमेव मुनेस्तस्य साध्यं किं कायदण्डनैः || २६
1095 ) चित्तमेकं यः पुमान् एकं चित्तं जेतुं न शक्नोति समर्थो न भवति । कीदृशं चित्तम् । स्वातन्त्र्यवति स्वाधीनर्वात । स मूढो मूर्खः लोके न लज्जते । अपि तु लज्जत एव । किं कुर्वन् । ध्यानवार्तां ब्रुवन् वदन् । इति सूत्रार्थः ||२३|| [ मनोजयेन सर्वं साध्यं भवतीत्याह ।
1096 ) यदसाध्यं - मुनिभिः यत् पदम् असाध्यं तत् चित्तप्रसरबन्धकैः मनोजयिभिः प्राप्यते । कीदृशैः मुनिभिः । तपोनिष्ठैः तप आचरद्भिः । अपि च कीदृशैः । वीतमत्सरः ईर्ष्यारहितैः । इति सूत्रार्थः ||२४|| भावशुद्धेः फलमाह ।
1097 ) अनन्त -- मुनेः कर्मबन्धस्थितिः क्षणात् प्रक्षीयते नश्यति । कीदृशस्य मुनेः । भावशुद्धि मनोजयं प्रपन्नस्य प्राप्तस्य । कीदृशी कर्मबन्धस्थितिः । दृढा स्थिरा । पुनः कीदृशी । अनन्तजन्मजा अनन्तजन्मसमुद्भवा । इति सूत्रार्थः || २५ || पुनस्तदेवाह ।
1098 ) यस्य चित्तं यस्य चित्तं स्थिरीभूतं तस्य मुनेः सर्वं सिद्धमेव । कीदृशं चित्तम् । प्रसन्नं ज्ञानवासितं च । तस्य मुनेः कायदण्डनैः किं साध्यम् । न किमपीत्यर्थः ||२६|| ] अथाजितचित्तस्य सर्वं विफलमाह ।
[ २०.२३
-----
Jain Education International
जो स्वतन्त्रता से प्रवृत्ति करनेवाले उस एक चित्तके जीतने में समर्थ नहीं है, परन्तु ध्यानकी बात करता है; वह मूर्ख इस लोकमें लज्जाको क्यों नहीं प्राप्त होता है ? अर्थात् उसे लज्जित होना चाहिये, क्योंकि, मनकी एकाग्रताके बिना उस ध्यानकी सम्भावना नहीं है ||२३||
मात्सर्यभावको छोड़कर तपका अनुष्ठान करनेवाले साधुजन जिस पदको नहीं सिद्ध कर पाते हैं, हे धीर ! उस पदको चित्तके संचारको रोकनेवाले - उसे वशमें कर लेनेवाले - सज्जन प्राप्त कर लेते हैं ||२४||
जो मुनि भावोंकी निर्मलताको प्राप्त कर चुका है उसके अनन्त जन्मोंमें उत्पन्न हुई अनेक कर्मों की दृढ़ स्थिति क्षणभर में क्षीण हो जाती है ||२५||
जिसका निर्मल व ज्ञानसे संस्कारित मन स्थिरताको प्राप्त हो चुका है उस मुनिका साध्य–रत्नत्रयरूप अभीष्ट - सिद्ध ही हो चुका। अब उसे शरीरको क्लेश पहुँचानेवाले
१. Y लज्जितः । २. Kom 24 to 26 verses । ३. All others except PMF धीरैश्चित्त ।
For Private & Personal Use Only
www.jainelibrary.org