SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ -९१-७] १९. त्रितत्त्वम् लतालास्योपदेशकुशलैः सुरतभरप्रखिन्नपन्नगनितम्बिनीजनवदनकवलिताशेषेरपि विरहिणीनिःश्वासमांसलीकृतकायैः केरलीकुरलान्दोलनदर्तरुत्कम्पितकुन्तलकामिनीकुन्तलैः परिगतसुरत खेदोन्मिषितलाटीललाटस्वेदाम्बु कणिकापानदोहदवद्भिरासादिवाचाला ये मधुकरा भ्रमराः तेषां कुटुम्बिन्य: भ्रमर्यः तासां कोमलालापः तेन संवलितो मिश्रितः मांसलितः पुष्टः यः कोकिलालापः तस्य कुलं तस्य क्वणत्कारः तदेव संगीतकं तत्प्रियं तेन । पुनः कीदृशेन । मलयमारुतैः समुल्लसितसौभाग्येन मलयगिरिमेखलावनकृतनिलयचन्दनलतालास्योपदेशकुशलैः। मलयगिरेमें खलाया यानि वनानि तत्र कृतं निलयं स्थानं याभिश्चन्दनलताभिः तासां लास्यो मनोहरः यः उपदेशः तत्र कुशलै: चतुरैः । पुनः कीदृशैः । सुरतभरेण खिन्नाः पन्नगनितम्बिन्यः सर्पस्त्रियः। ता एव जनः, तस्य वदनं तेन कवलिता ग्रसिता शिखा अग्रभागो येषां ते, तैरपि । पुनः कीदृशैः । विरहिणीनिःश्वासमांसलीकृतकायैः विरहिणीनिःश्वासैसिलीकृतः स्थूलीकृतः कायो येषां तैः । पुनः कीदृशैः । केरलीकुरलान्दोलनदक्षः केरलीदेशस्त्रीकुरलान्दोलनदक्षश्चतुरैः । पुनः कीदृशैः उत्कम्पितकुन्तलकामिनीकुन्तल: उत्कम्पितकुन्तलदेशस्त्रीणां कुन्तलाः केशा यैः ते, निलयाः स्थानानि याभिस्ताश्च ताः चन्दनलताः चन्दनवल्ल्यश्चन्दनशाखाश्च तासां लास्योपदेशे नर्तनशिक्षण कुशलाः प्रवीणा मलयमारुतास्तैः तथोक्तः। पनरपि कथंभतः मलयमार लयमारुतैः । सूरतभरखिन्नपन्नगनितम्बिनीजनवदनकवलितशिखैरपि विरहिणीनिःश्वासमांसलीकृतकायैः सुरतभरेण संभोगातिशयेन खिन्नाः खेदं प्राप्ताः ये पन्नगनितम्बिनीजनाः नागस्त्रीसमूहाः सर्पवनितावृन्दानि तेषां वदनानि मुखानि तैः कवलिताः आस्वादिताः शिखा अग्राणि येषां मलयमारुतानां ते तथोक्तास्तैः तथोक्तैः । ईदृग्विधव्यययुक्तैरपि विरहिणीनां विप्रलब्धानां स्त्रीणां निःश्वासैः ऊर्ध्वमुक्तश्वसितैः मांसलीकृतः स्थूलीकृतः पुनरुक्तः पुष्टि नीतः कायो येषां मलयमारुतानां ते तथोक्ताः तैः तथोक्तः । भूयोऽपि कथंभूतैः मलयमारुतैः । केरलीकुरलान्दोलनदक्षैः । केरलदेशस्त्रीणां केशकम्पनचतुरैः । अपरं किविशेषणैर्मलयमारुतैः। उत्कम्पितकुन्तलकामिनीकुन्तलैः उत्कम्पिताः नतिताः कुन्तलकामिनीनां कुन्तलदेशस्त्रीणां कुन्तलाः केशाः यैः ते तथोक्ताः तैः । अन्यत् कथंभूतैः मलयमारुतैः । परिगतेत्यादि -परिगतः उत्पन्नः सुरतखेदः संवेशश्रमः तेन उन्मिषितः प्रादुर्भूतः लाटीनां नर्मदातटस्त्रीणां ललाटेषु निटिलतटेषु यो ऽसौ स्वेदः प्रस्वेदजलं तस्य कणिकाश्चूर्णािसि तासां पाने आचमने दोहद इच्छा उपदेशके करनेमें कुशल (मलयमारुतका विशेषण), सम्भोगकी अधिकतासे खेदको प्राप्त हुई सर्पिणी जनके मुखका सामस्त्येन (पूर्णरूपसे) ग्रास बन जानेपर भी वियोगिनी स्त्रियोंकी निःश्वासोंसे पुष्ट किये गये शरीरको धारण करनेवाला, केरल देशवासिनी स्त्रियोंके बालोंके कम्पनमें कुशल, कुन्तल देशकी कामिनी जनके केशोंको कम्पित करनेवाला, प्राप्त हुए सम्भोगके खेदसे उत्पन्न हुए लाट देशकी स्त्रियोंके स्वेद (पसीना) जलके पानकी इच्छा १. All others except P भरखिन्न । २. All others except P M N कवलितशिखैरपि । ३. M N आन्दोलदक्षैः। ४. L उत्कम्पितकामिनी। ५. T खेदोन्मिलितः । ६. K श्वेताम्बु, S T X Y R खेदाम्ब । ७. P M N T दोहद्धि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy