SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ३६३ -९२१-७] १९. त्रितत्त्वम् लितचेताश्चतुरचेष्टितभ्रूभङ्गमात्रवशीकृतजगत्त्रयस्त्रैणसाधनो दुरधिगमागाधगहनतरैरागसागरान्तदोलितसुरासुरनरभुजगयक्षसिद्धगन्धर्वविद्याधरादिवर्गस्त्रीपुरुषभेदभिन्नसमस्तसत्त्वपरस्परमनःसंघ - दृनसूत्रधारः विविधवनराजिपरिमलपरिमिलितमधुकरनिकरवि चतुरचेष्टितभ्रूभङ्गमात्रवशीकृतजगत्त्रयस्त्रैणसाधनः, चतुरचेष्टा इताः प्राप्ता यैरेतादृशा ये भ्रूभङ्गाः कटाक्षाः तन्मात्रेण वशीकृतं जगतां त्रयं एतादृशं स्त्रीणां समूहः स्त्रैणं तदेव साधनं यस्य स तथा । पुनः कीदृशः । दुरधिगमागाधगहनरागसागरान्तर्दोलितसुरासुरनरभुजगयक्षसिद्धगन्धर्वविद्याधरादिवर्गः, दुरधिगमः दुर्जेयः, अगाधो गुपिलः, गहनः रागसागरः रागसमुद्रः, तत्रान्तर्दोलिता कम्पिताः, सुरासुरा नराश सर्पाः, यक्षाश्च सिद्धाश्च गन्धर्वा विद्याधराश्च ते वा विद्याधराश्च तेषां समूहः तदादिवर्गो येन स तथा । पुनः कीदृशः । स्त्रीपुरुषभेदभिन्नसमस्तसत्त्वपरस्परमनःसंघट्टनसूत्रधारः कलाचार्यः । पुनः कीदृशः । वसन्तसुहृदा वसन्तमित्रेण दूरमारोपितप्रतापः। कीदृशेन वसन्तेन । विविधवनराजिपरिमलपरिमिलितमधुकरकुलविकसितसितकुसुमस्तबकतरलितकटाक्षप्रगटसौभाग्येन विविधा नानासौन्दर्यरतिकेलिकलापदुर्ललितचेता. कमनीया मनोनयनहारिण्यः याः सकलाः समस्ता ललना मनोहरकोमलतरशरीरास्तरुण्यः तासां वृन्दैः समूहैः वन्दितं सौन्दर्यं सौभाग्यं यस्या सा चासौ रतिः कामभार्या तस्याः केलयः तया सह क्रीडनानि आलिङ्गनचुम्बनभाषणादीनि तेषां कलापाः समूहाः तत्र दुर्ललितम् अनिवारितचेष्टितं चेतो मनो यस्य आत्मनः स तथोक्तः । पुनरपि कथंभूत आत्मा । चतुरेत्यादि-चतुरचेष्टितं विदग्धचेष्टासहितं यद्धृभङ्गमानं भ्रूविक्षेपमानं चिल्लीचलनमात्रं तेन वशीकृतं वशमानीतं स्वनाथवत्कृतं यत् जगत्रयस्त्रैणं त्रैलोक्यवनितासमूहः 'स्त्रीपुंसाभ्यां नणस्नणी' तदेव साधनं सैन्यं यस्यात्मनः स तथोक्तः । पुनः किविशिष्टो ध्यानेन कन्दीभूत. स आत्मेत्याह । दुरधिगमेत्यादि-दुरधिगमो दुर्गमः अगाधः अतलस्पर्शः गम्भीर इति यावत् । गहनः अविज्ञातमध्यमर्मा स चासौ रागसागरः राग एव सागरः अप्राप्तपर्यन्तत्वात् । तस्य अन्तः मध्ये दोलितो निर्मथितः सुरासुरनरभुजगयक्षसिद्धगन्धर्वविद्याधरादिवर्गो येन । सुराश्च कल्पवासिनो देवाः, असुराश्च भुवनवासिव्यन्तरज्योतिष्काः, नराश्च राजादिलोकाः, भुजङ्गाश्च धरणेन्द्रादयः शेषनागादयः, बाणका लक्ष्य बनाया है, जो प्रकाशमान मगरके चिह्नसे चिह्नित ध्वजासे रमणीय है, जिसका चित्त समस्त स्त्रियोंके समूहसे वन्दित (प्रशंसित) सुन्दरताको धारण करनेवाली अपनी पत्नी रतिके साथ की जानेवाली क्रीड़ाओंके समूहसे दुर्ललित है-उनसे विमुख नहीं होता है, जिसने कुशल चेष्टापूर्वक भृकुटियोंके भंग करने मात्रसे- उन्हें टेढ़ा करके ही तीनों लोकोंके स्त्रीसमूहरूप सैन्यको वश में कर लिया है; जो दुर्गम अथाह एवं अतिशय गहन रागरूप समुद्र के भीतर झूलते हुए देव, असुर, मनुष्य, सर्प, यक्ष, सिद्ध, गन्धर्व और विद्याधर आदिके समूहों में स्त्री व पुरुष इन दो भेदोंमें विभक्त हुए समस्त प्राणियों के मनके परस्पर संघर्षण १. All others except P M चतुरश्चे। २. N जगत्त्रयः । ३. All others except PM N om तर । ४. M रान्तर्लोलित । ५. All others except P वर्गः । ६. All others except P N T K संघटन । ७. All others except P M X Y राजिमञ्जरीपरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy