SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३६२ ज्ञानार्णवा [ १९.९२१-७यदि पुनरसौ सकलजगच्चमत्कारिकार्मुकास्पदनिवेशितमण्डलीकृतसरसेक्षुकाण्डस्वरसहितकुसुमसायकविधिलक्ष्यीकृतदुलक्षमोक्षलक्ष्मीसमागमोत्कण्ठितकठोरतरमुनिमनाः स्फुरन्मकर केतुकमनीयः सकलललनावृन्दवन्दितसौन्दर्यरतिकेलिकलापदुर्ल यदि पुनः–यदि पुनरसौ आत्मा सकलजगच्चमत्कारिकार्मुकास्पदनिवेशितमण्डलीकृतसरसेक्षुकाण्डस्वरसहितकुसुमसायकविधिलक्ष्यीकृतदुर्लक्ष्यमोक्षलक्ष्मीसमागमोत्कण्ठितकठोरतरमुनिमनाः । सकलजगतः चमत्कारिकार्मुकास्पदनिवेशितो धनुःस्थानारोपितो मण्डलीकृतो वक्रीकृतः सरसेक्षुकाण्डस्तस्य स्वरसे आहिता आरोपिताः कुसुमसायकाः पुष्पबाणाः तेषां विधिमोचनेन लक्ष्यीकृतं वेधीकृतम् । दुर्लक्ष्या दुष्प्राप्या या मोक्षलक्ष्मीः तस्याः समागमोत्कण्ठितकठोरतरमुनीनां मनो येन स तथा । पुनः कीदृशः। स्फुरन्मकरकेतुकमनीयसकलललनावृन्दवन्दितसौन्दर्यरतिकेलिकलापदुर्ललितचेताः स्फुरन् यो मकरकेतुः कन्दर्पः तद्वत् कमनीयं प्रधानं यत्सकलललनावृन्दं स्त्रीसमूहः तेन वन्दितं सौन्दर्यं यस्या रतेः तस्याः केलीनां कलापाः समूहाः, तैर्दुर्ललितं चेतो यस्य स तथा । पुनः कीदृशः । ___ यदि-यदि चेत् पुनर्भूयो ऽपि असौ स्वसंवेदनप्रत्यक्षीभूत आत्मा इति अमुना प्रकारेण चिन्त्यते ध्यायते। तदा तस्मिन् काले अयं चिच्चमत्कारलक्षणो ज्ञायकैकस्वभावः आत्मैव नान्यः को ऽपि कामोक्तिविषयतां कामनामगोचरताम् अनुभवति प्राप्नोति इति क्रियाकारकसंबन्ध । कामभूत आत्मा कथंभूतः । सकलजगदित्यादि-सकलजगतां चमत्कारि स्फुरद्रूपं यत्कार्मुकं धनुः तस्यास्पदे स्थाने निवेशितः आरोपितः स चासौ मण्डलीकृतः आकृष्य कुण्डलाकारीकृतः । रागलक्षणरससहितत्वात् सरसः स चासौ इक्षुदण्डः स च स्वरसहितकुसुमसायकश्चेति द्वन्द्वममासः इतरेतरलक्षणः । स्वरः शब्दः टङ्कार इति यावत् । तेन सहिताः संयुक्ताः ये कुसुमसायकाः पुष्पबाणाः उन्मादनमोहनसंतापनशोषणमारणलक्षणोपलक्षिताः पञ्च । तेषां कार्मुकसायकानां यो विधिविधानम् आरोपणं तेन लक्ष्यीकृतं तच्च तत् दुर्लक्ष्यं लक्षयितुम् अशक्यम् । 'ईषदुःसुषु कृच्छ्रार्थेषु खल ह्यणप्रत्ययापवादभूतः खल्प्रत्ययः ।' तच्च तत् मोक्षलक्ष्मीसमागमोत्कण्ठितं मोक्षलक्ष्मी. परमानन्दसुखदायिनीत्वात् । तस्याः समागम आगमनं तत्र उत्कण्ठितं बद्धहेवाकं कठोरतरं दीक्षाकाले पुत्रकलत्रमित्रस्नेहरहितत्वात् निर्दयम् । मुनीनां स्वपरसमययतीनां मनः चित्तं येन आत्मना स तथोक्तः । पुनः कथंभूतो ऽयमात्मा। स्फुरनित्यादि-स्फुरन् भुवनत्रयजनमनस्सु चमत्कुर्वन् मकराकारचित्रशोभितः केतुः ध्वजो यस्य स स्फुरन्मकरकेतुः स चासौ कमनीयसकलललनावृन्दवन्दित यदि आगे कहे जानेवाले स्वरूपके अनुसार चिन्तन किया जाता है तो वह कामतत्त्व भी आत्मास्वरूप ही है-उससे भिन्न नहीं है । यथा-जिसने समस्त लोकको आश्चर्यचकित करनेवाले धनुषके स्थान में रसपूर्ण ईखके दण्डके समान स्वर (टंकार) युक्त पुष्पबाणको रखकर और फिर धनुषको खींचकर उसे मण्डलाकार करके विधिपूर्वक दुर्लक्ष (अदृश्य) मुक्तिरूप लक्ष्मीके समागममें उत्सुक व अतिशय कठोर ऐसे मुनियोंके मनको अपने उस १. M N काण्डासनसहित....विधिः । २. N S T Y R दुर्लभ, X दुर्मोक्ष । ३. SJX Y R केतुः । ४. M N रमणीयः । ५ All others except P M N यसकल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy