SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ -९५१-६ ] १९. त्रितत्त्वम् परिकलितसमस्तगारुडमुद्राकारिडम्बरसमस्ततत्वात्मकः सन्नात्मैव गारुडगीर्गोचरत्वमवगाहते ॥ [इति वितत्त्वम्] ॥६ ग्रहाः केत्वादयः, यक्षाः व्यन्त रविशेषाः, किनरा अश्वमुखाः व्यन्तरभेदाः एव । नरेन्द्रा एवारयः, मारिर्मरणप्रवृत्तिः, परेषां यन्त्रं त्रिकोणाधुच्चाटनादिविषयम्, मन्त्रं दुष्टदेवाधिष्ठायकम्, मुद्रामण्डलं कौलशास्त्रे प्रसिद्धम् । ज्वलनो ऽग्निः, हरिः सिंहः, शरभा अष्टापदाः, शार्दूला व्याघ्राः, द्विपा हस्तिनः, दैत्या दानवाः, अन्ये ये दुष्टप्रभृतयः तेषां समाहार : ते तथा । तेषां समस्तोपसर्गाः तैः कृता वा समस्तोपसर्गास्तेषां निर्मूलनं दूरीकरणं तत्कारि यत्सामर्थ्यं तेन परिकलितः संयुक्तः यः समस्तः गारुडमद्रामण्डल: गरुडाकृतिमण्डल: तस्याडम्बरो यस्मिन् स समस्ततत्त्वात्मकश्च यः स तेषां समाहारः स तथा सन् ॥ इति वियत्तत्त्वार्थः ॥६॥ अथात्मनः कामरूपतामाह । समस्ततत्त्वात्मकः नभस्तले गगनमण्डले निलीनानि स्थितानि समस्तानि विश्वानि पृथ्वीवरुणाग्निवायुनामानि यानि यानि तत्त्वानि पूर्वोक्तलक्षणोपलक्षितानि चत्वारि तत्त्वानि आत्मा स्वभावो यस्यात्मनः स नभस्तलनिलीनसमस्ततत्त्वात्मकः । अन्यच्च कथंभूतो ऽयमात्मा। समस्तेत्यादि महागद्यम। समस्ता विश्वे तेच ते ज्वररोगाः वातपित्तश्लंष्मोद्भवा व्याधयः आयर्वेदनिश्चित. नामानः ते च ज्वरश्च एकाहिकद्वयाहिकत्र्याहिकादिकः ज्वरो महारोगत्वात्पृथगुपात्तः। विषधराश्च अनेकभेदनागाः। उड्डामरश्च महती भीतिः, डाकिन्यश्च कुत्सितमन्त्राः स्त्रियः, ग्रहाश्च पिशाचाः शनिप्रभृतयश्च, यक्षाश्च धनदाः, किंनराश्च अश्वमुखाः, नरेन्द्राश्च राजानः, अरयश्च शत्रवः, मारिश्च मरकः, परेषां मिथ्यादृष्टीनां यन्त्रमन्त्रमुद्रामण्डलानि च, ज्वलनश्च दावादिलक्षणः, हरयश्च सिंहाः, शरभाश्च अष्टापदाः, शार्दूलाश्च व्याघ्राः, द्विपाश्च हस्तिनः, दैत्याश्च व्यन्तरादयः, दुष्टाश्च दुर्जनाः, कर्णजपाः ते प्रभूतयो मुख्या येषां शाकिनीब्रह्मराक्षसादीनां तेषां संबन्धी समस्तः सर्वः यो ऽसावपसर्गः तस्य निर्मलनकारि समूलकाषंकाषकारि सामर्थ्य बलं यस्यात्मनः स तथोक्तः। अपर च कथंभूतः। परि इत्यादि । परिकलिता स्वसात्कृता या समस्ता पञ्चविधापि या गारुडमुद्रा तस्या आडम्बरः आटोपः परिपूर्णता येषु समस्तेषु तत्त्वेषु तानि च तानि तत्त्वानि आत्मा स्वभावो यस्यात्मनः स तथोक्तः। एवंविधध्यानाविष्टः आत्मा गारुडो भवति । विषादिसामर्थ्य निरर्थयति इत्यर्थः । इति वियत्तत्त्वं समाप्तम् ॥६॥ अथेदानी कामतत्त्वं प्रकाशयितुमनाः यदि पुनरित्याह । नष्ट कर देनेवाली शक्तिसे सम्पन्न, तथा गारुडमुद्राको करनेवाले आडम्बरसे परिपूर्ण पृथिवी आदि समस्त तत्त्वोंस्वरूप होता हुआ आत्मा ही गारुडगीकी-गारुड विद्याका ज्ञाता इस नामकी-विषयताको प्राप्त होता है, वितत्त्व समाप्त हुआ ॥६॥ १. M N F X Y मुद्रामण्डलसमस्त, L मुद्रामण्डलाडम्बर, S T JR मुद्राडम्बरसमस्त । २. P विषतत्त्वम्, L F वियत्तत्त्वम्, T गुरुतत्त्वम्, J om. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy