________________
३५६
ज्ञानार्णवः
तदुपरि पुनरानाभिविपुलतरसुधा समुद्र संनिभसमुल्लसन्निजशरीरप्रभा पटलव्याप्त सकलगगनान्तरालवैश्याशीविषधरावनद्धवारुणबीजाक्षरमण्डनं पुण्डरीकलक्ष्मोपलक्षितपारावारमयखण्डेन्दुमण्डलाकारवरुणपुर प्रतिष्ठित विपुलतरप्रचण्ड मुद्राग्रहेति विकीर्णशिशिर
तदुपरि - एतादृशत्वो भवति । तदुपरि पृथ्वीतत्त्वोपरि आनाभि गरुडनाभि मर्यादी कृत्य विपुलतरसुधासमुद्रसंनिभसमुल्लसन्निजशरीरप्रभापटलः कान्तिसमूहः तेन व्याप्तं सकलं गगनान्तरालमाकाशमध्यं येन स तथा । च पुनः । कीदृशः । वैश्याशीविषविषधरावनद्ध वारुणबीजाक्षरमण्डनः वैश्यः च आशीविषश्च एतादृशौ विषधरौ कर्कोटकपद्मनागौ ताभ्याम् अवनद्धं व्याप्तं यद्वारुणबीजाक्षरं वारुणमन्त्राक्षरं तन्मण्डनं यस्य स तथा । च पुनः । कीदृशः । पुण्डरीकलक्ष्मो पलक्षितकमललाञ्छनोपयुक्त यः स तथा । च पुनः । कीदृशः । पारावारमयखण्डेन्दुमण्डलाकारवरुणपुर प्रतिष्ठित विपुलतरप्रचण्डशुण्डाग्रहेतिविकीर्णशिशिरत रपयः कणाक्रान्तिकर्बुरितसकलदिक्चक्रं, पारावारमयः समुद्रमयः यः खण्डेन्दुमण्डलः अर्धचन्द्रमण्डलः तदाकारं यद्वरुणपुरं वरुणमण्डलं तत्र प्रतिष्ठितं यः स तथा । च विपुलतरो विस्तीर्णतरः प्रचण्डमुद्राग्रहः आयुधाग्रहः तस्मिन् अतिविकीर्णा अतिविक्षिप्ताः शिशिर
[ १९.९×१-३
तदुपरि - तदुपरि तस्य सुनासीरपरिकल्पितजानुद्वयस्योपरि तदुपरि । पुनः पुनरपि पूर्वोक्तध्यानविधानानन्तरम् अपरं ध्यानम् । आनाभि तुन्दिकापर्यन्तं विपुलतरो विस्तीर्णंतरो यः सुधासमुद्रोऽमृतसमुद्रः क्षीरसागरः तेन संनिभम् । अतिशुक्लं समुल्लसत् सम्यगुल्लासं प्राप्नुवत् यन्निजशरीरं सर्पशरीरद्वयं तस्य प्रभापटलानि तेजः समूहाः तैः व्याप्तं शबलीकृतं सकलं समग्रं गगनान्तरालम् आकाशमध्यं याभ्यां तौ वैश्याशीविषविषधरौ वैश्यजात्युत्पन्नौ आशीविषौ दंष्ट्राविषौ विषधरौ कर्कोटपद्मनामानौ ताभ्याम्, अवनद्धं वेष्टितं तच्च तद्वारुणबीजाक्षरमण्डनं वारुणबीजाक्षरैः चतुभिः वकारैः चतुर्दिस्थितैः मण्डनं शोभा यस्य तच्च तत्पुण्डरीकलक्ष्मोपलक्षितं पञ्चपत्रकमललक्षणोपशोभितं तच्च तत्पारावारमयं क्षीरसागरमयं तच्च तत् खण्डेन्दुमण्डलाकारम् अर्धचन्द्रमण्डलसदृशं यत् वरुणपुरं वरुणतत्त्वं जलमण्डलमिति यावत् । तत्र वरुणपुरे प्रतिष्ठितः स्थितो यो ऽसौ विपुलतरो विस्तीर्णतरः प्रचण्डमुद्रः अद्भुतमूर्तिः । स चासौ अग्रहेतिविकीर्णशिशिरपयःकणा
इन्द्रकी प्रतिकृति ( मुहर ) से अलंकृत एवं समस्त पृथ्वीका आश्रय लेनेवाले इन्द्रके द्वारा रचे ये दोनों घुटनोंसे संयुक्त, पृथिवीतत्व ॥२॥
Jain Education International
फिर इन्द्र के द्वारा रचे गये उन दोनों घुटनोंके ऊपर नाभिपर्यन्त अतिशय विस्तृत अमृतसमुद्रके समान विकसित होनेवाली अपने शरीर की कान्तिके समूह से समस्त आकाश मध्य भागको व्याप्त करनेवाले ऐसे वैश्य जातिके दो सर्पों (कर्कोट और पद्म) से वेष्टित वारुण बीजाक्षरोंसे चारों दिशाओं में स्थित चार वकारोंसे – मण्डित; पाँच पत्तोंवाले कमलके चिह्नसे उपलक्षित क्षीरसमुद्रस्वरूप, अर्ध चन्द्रमण्डलके सदृश आकारवाले वरुणपुरप्रतिष्ठित अतिशय विस्तृत आश्चर्यजनक मूर्तिसे संयुक्त, मुख्य किरणों से मिश्रित अतिशय
१. M N धरावबद्ध ! २. J मण्डल । ३. M लक्ष्योपलं, J लक्ष्म्योपल ।
For Private & Personal Use Only
www.jainelibrary.org