SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ -९*१-२ ] १९. त्रितत्त्वम् 'कान्तिच्छटा पटलजटिलितदिग्वलयक्षत्रिय भुजङ्गपुङ्गवंद्वितयपरिक्षिप्तक्षितिबोजविशिष्टप्रकटपविपञ्जरपिनद्धसवनगिरिं चतुरस्रमेदिनीमण्डलावलम्बनगजपतिपृष्ठ प्रतिष्ठित परिकलित कुलिश करैशचीप्रमुखविलासिनीशृङ्गारदर्शनोल्लसितलोचन सहस्रश्री त्रिदशपतिमुद्रालंकृतसमस्तभुवनावलम्बिशुनासीरंपरिकलितजानुद्वयः ॥ [ इति पृथ्वीतत्त्वम् । ] ||२ च पुनः । कीदृशः । क्षत्रकुलोत्पन्नसर्पप्रधानद्वितयेन परिक्षिप्तं वेष्टितं यत् क्षितिबीजं धरामूलं तत्र विसृष्टः स्थापितः प्रगटो वज्रपञ्जराच्छादितः सवनगिरिः सुमेरुः । च पुनः । कीदृशः । चतुरस्रमेदिनीमण्डलस्य अवलम्बनं यः सः । च पुनः । कीदृशः । गजपतिपृष्ठप्रतिष्ठित ऐरावतपृष्ठारोहितः । परिकलितः स्थापितः कुलिशो वज्रः करे येन सः । च पुनः । कीदृशः । श्रीत्रिदशपतिर्देवेन्द्रः, तस्य मुद्रा प्रतिबिम्बेनालंकृतं समस्तं भवनं तदवलम्बी यः सुनासीर इन्द्र:, तेन परिकलितं व्याप्तं जानुद्वयं यस्य स च तेषां समाहारस्तथा । इति पृथ्वीतत्त्ववर्णनं समाप्तम् ||२|| ततो पूतत्वं तदधिष्ठायक वरुणाकारेण वर्णयति । ३५५ निजकायौ स्वशरीरे तयोः याः कान्तयो दीप्तयः तासां छटापटलं धारासमूहः तेन जटिलितं कर्बुरीकृतं दिग्वलयं दिक्चक्रं येन तत् क्षत्रियभुजङ्गपुङ्गवद्वितयं क्षत्रियजातिवासुकिशङ्खपालनामधेयसर्पराजयुगलं, तेन परिक्षिप्तं वेष्टितं तच्च [ तत्क्षिति - ] बीजविसृष्टं लक्षि [?] इति वर्णद्वयचतुष्टयसंयुक्तं तच्च तत् प्रकटपविपञ्जरपिनद्धं स्फुटतरवज्ररेखाचतुष्टयेन वेष्टितम् । यत्सुवर्णगिर्युपलक्षितं मेरुगिरिशोभमानम् । यत् चतुरस्रं चतुष्कोणम् | यन्मेदिनीमण्डलं पृथ्वीतत्त्वं तत् अवलम्बनम् आधारो यस्य स चासौ गजपतिपृष्ठप्रतिष्ठितः ऐरावणस्कन्धमारूढः । स चासौ परिकलितकुलिशकरः समुद्धृतवज्रहस्तः स चासौ शचीप्रमुखविलासिनीशृङ्गारदर्शनोल्लसितलोचनसहस्रः, शची इन्द्राणी, प्रमुखा मुख्या यासां विलासिनीनां कमनीयकामिनीनां तासां शृङ्गारदर्शने स्तनजघनवदनादिशोभाविलोकने उल्लसितम् उत्फुल्लं लोचनसहस्रं यस्य स चासौ त्रिदशपतिर्देवराजः तस्य या मुद्रा तया अलंकृतं शोभितं यत्समस्तं भुवनं जगत् तत्र अवलम्बते । इत्येवंशीलः तदवलम्बी स चासौ सुनासीरो देवेन्द्रः तेन परिकलितं रचितं जानुद्वयम् अष्ठीवत्पर्यन्तं जङ्घायुगलं येनात्मना स तथोक्तः ॥ २॥ (वासुकि और शंखपाल) से वेष्टित; 'क्ष' इस बीजाक्षर से विशेषताको प्राप्त होता हुआ सष्टतया चार वज्र-रेखाओंसे वेष्टित सुमेरुसे युक्त चौकोन पृथिवीमण्डलका आश्रय लेनेवाले ऐरावण हाथीकी पीठपर अवस्थित, हाथ में वज्रको लिये हुए, और इन्द्राणी आदि देवांगनाओंके शृंगार (सजावट) के देखने में हर्ष को प्राप्त हुए हजार नेत्रोंकी शोभासे सम्पन्न ऐसे १. EN कायजनितकान्ति । २. N पुङ्गव विनताद्वितय । ३. All others except P M विसृष्ट | ४. गिरिः । ५. Y करप्रकरशची । ६. N भुवनालम्बि सुनासीरमुनिसारपरि, Tभुवनावलिसुना' । ७. All others except PM read इति पृथ्वी etc. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy