________________
३३९
-१२८ ]
१८. अक्षविषयनिरोधः 1023 ) यथा यथा हृषीकाणि स्ववशं यान्ति देहिनाम् ।
तथा तथा स्फुरत्युच्चैहृदि विज्ञानभास्करः ॥१२५ 1024 ) विषयेषु यथा चित्तं जन्तोमैग्नमनाकुलम् ।
तथा यद्यात्मनस्तत्वे सद्यः को न शिवीभवेत् ॥१२६ 1025 ) अतृप्तिजनकं मोहदाववढेमहेन्धनम् ।
असातसंतते/जमक्षसौख्यं जगुर्जिनाः ।।१२७ 1026 ) नरकस्यैव सोपानं पाथेयं वा तदध्वनि ।
अपवर्गपुरद्वारकपाटयुगलं दृढम् ॥१२८ ___1023) यथा यथा-यथा यथा येन प्रकारेण हृषीकाणि इन्द्रियाणि स्ववशं यान्ति वश्यानि भवन्ति । केषाम। देहिनां प्राणिनाम् । तथा तथा देहिनां हदि स्फरति प्रगटीभ उच्चैः विज्ञानभास्करः विशिष्टज्ञानसूर्यः । इति सूत्रार्थः ॥१२५॥ अथ विषयेषु यथास्थितमनसः शिवत्वाभावमाह।
__1024) विषयेषु-[ अनाकुलम् अवशम् । मग्नम् आसक्तम् । ] कः न [ सद्यः] शीघ्र मुक्तो भवति । इति सूत्रार्थः ॥१२६।। अथाक्षजसौख्यस्यातृप्तिजनकतामाह।
_1025) अतृप्तिजनक-अक्षसौख्यमिन्द्रियसुखं जिनाः केवलं न अतृप्तिजनकं जगुः कथया. मासः । कोदशम अक्षसौख्यम। मोहदाववहः मोहदावाग्नेः महेन्धनं महावनीयकाष्ठम् । पुनः कीदृशम् अक्षसौख्यम् । अशातसंततेर्बीजं दुःखसमूहस्य जनकम् । इति सूत्रार्थः ॥१२७।। अथ पुनस्तत्स्वरूपमाह।
____1026) नरकस्यैव-पुनः कीदृशम् अक्षसौख्यम् । नरकस्यैव सोपानं पङ्क्तिः श्रेणिः । वा अथवा । तदध्वनि नरकमार्गे पाथेयं शम्बलम् । पुनः कीदृशम् । अपवर्गपुरद्वारकपाटयुगलं मोक्षनगरद्वारकपाटयुग्मं दृढम् । इति सूत्रार्थः ।।१२८॥ अथाक्षजसौख्यरूपमाह ।
प्राणियोंकी इन्द्रियाँ जैसे-जैसे अपने वशमें होती हैं वैसे-वैसे उनके हृदयमें विशिष्ट ज्ञानरूप सूर्ये अतिशय प्रकाशित होता है ।।१२५॥
प्राणीका मन निराकुल होकर जिस प्रकार विषयों में मग्न ( आसक्त ) होता है उस प्रकार यदि वह आत्माके स्वरूपमें निमग्न होता तो फिर शीघ्र ही कौन न मुक्त हो जाता ? सभी शीघ्र मुक्त हो सकते थे ॥१२६।।
जिन भगवान्ने इन्द्रियजन्य सुखको असन्तोषका उत्पन्न करनेवाला, मोहरूप वनाग्निको बढ़ानेवाला महान इंधन और दुःखपरम्पराका कारण बतलाया है ।।१२७||
इन्द्रियविषयोंसे जो सुख उत्पन्न होता है वह नीचे नरकमें जानेके लिए सीढ़ीके समान अथवा उसी नरकके मार्गमें खाने योग्य नाश्ता जैसा, मोक्षरूप नगरके द्वारके दृढ़ दोनों
१. N कवाट ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org