________________
३३८ ज्ञानार्णवः
[१८.१२१1019 ) हृषीकभीमभोगीन्द्र दीप्रेदर्पोपशान्तये ।
स्मरन्ति वीरनिर्दिष्टं योगिनः परमाक्षरम् ॥१२१ 1020 ) निरुध्य बोधपाशेन क्षिप्ता वैराग्यपञ्जरे ।
हृषीकहरयो येन स मुनोनां महेश्वरः ॥१२२ 1021 ) हृदि स्फुरति तस्योच्चैोध रत्नं सुनिर्मलम् ।
शीलशालो न यस्याक्षदन्तिभिः प्रविदारितः ॥१२३ 1022 ) दुःखमेवाक्षजं सौख्यमविद्याव्याललालितम् ।
मूर्खास्तत्रैव रज्यन्ते न विद्मः केन हेतुना ॥१२४ 1019) हृषीक-योगिनः परमाक्षरं परमश्रुताक्षरं स्मरन्ति । कीदशम् । वीरनिदिष्टं वर्धमानकथितम् । कस्मै। हृषीकभीमभोगीन्द्रक्रुद्ध दोपशान्तये इन्द्रियरुद्रनागेन्द्रकोपितदर्पोपशमाय । इति सूत्रार्थः ।।१२१।। अथ वैराग्येन हृषीकपरा जयम् आह ।। . 1020) निरुध्य-हृषीकहरयः प्रस्तावात् पक्षिणः येन वैराग्यपञ्जरे क्षिप्ताः। बोधपाशेन ज्ञानपाशेन निरुध्य रोधयित्वा। स मुनीनां ज्ञाततत्त्वानां महेश्वरः प्रभुः। इति सूत्रार्थः ॥१२२॥ जिनधर्मः शीलरक्षणेन भवतीत्याह ।
___1021) हृदि स्फुरति-तस्य पुंसो हृदि बोधिरत्नम्* उच्चैः यथा स्यात् सम्यग्दर्शनादि रत्नं स्फुरति प्रगटोभवति । कीदृशं बोधिरत्नम् । सुनिर्मलम् । तस्येति कस्य । यस्य शीलशाल: शीलतरुः, अक्षदन्तिभिः इन्द्रियगर्न प्रविदारितः भेदितः । इति सूत्रार्थः ।।१२३॥ अथेन्द्रियसुखं दुःखानुबन्धित्वाद् दुःखमेवाह ।
1022) दुःखमेव-अक्षजमिन्द्रियजं यत्सुखं दुःखमेव । प्रान्ते दुःखदायित्वात् । कोदशम् । अविद्याव्याललालितम् अज्ञानसर्पपोषितम् । मूर्खाः बालिशास्तत्रैव अक्षजे सुखे रज्यन्ते । केन हेतुना इति न विद्मः न जानोमहे । इति सूत्रार्थः ।।१२४।। अथेन्द्रियेषु वशमानीतेषु ज्ञानोत्पत्तिमाह।
योगी जन इन्द्रियरूप भयानक सर्पराजके तेजपूर्ण गर्वको शान्त करनेके लिए वीर जिनेन्द्र के द्वारा उपदिष्ट सर्वश्रेष्ठ वर्ण ( ॐ ) का स्मरण किया करते हैं ।।१२।।
जिस मुनिने इन्द्रियरूप सिंहोंको सम्यग्ज्ञानरूप रस्सीसे रोककर वैराग्यरूप पिंजरेके भीतर फेंक दिया है वह मुनियोंका महेश्वर है-मुनियोंके मध्य में सर्वश्रेष्ठ मुनि है ॥१२२।।
जिसका शीलरूप वृक्ष इन्द्रियरूप हाथियों के द्वारा छिन्न-भिन्न नहीं किया गया है उसके हृदयमें अतिशय निर्मल उत्कृष्ट ज्ञानरूप रत्न प्रकाशमान होता है ॥१२३।।
अज्ञानरूप सर्पके द्वारा स्नेहपूर्वक पालित इन्द्रियजन्य सुख वास्तबमें दुख ही है। फिर हम नहीं जानते कि मूर्खजन किस कारणसे उसीके विषयमें अनुरक्त होते हैं ॥१२४।।
१. All others except P क्रुद्ध for दीप्र । २. LS T F JY R बोधिरत्नं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org