________________
-११३ ]
३३५
१८. अक्षविषयनिरोधः 1009 ) येन येन निवार्यन्ते क्रोधाद्याः परिपन्थिनः ।
स्वीकार्यमप्रमत्तेने तत्तत्कर्म मनीषिणा ॥१११ 1010 ) गुणाधिकतया मन्ये स योगी गुणिनां गुरुः ।
तन्निमित्ते ऽपि नाक्षिप्तं क्रोधाद्यैर्यस्य मानसम् ॥११२ 1011 ) यदि क्रोधादयः क्षीणास्तदा किं खिद्यते वृथा ।
तपोभिरथ तिष्ठन्ति तपस्तत्राप्यपाथेकम् ॥११३
जन्मशान्तिनिमित्तम् । इति सूत्रार्थः ।।११०॥ अथ येन क्रोधादयो निवारणीयाः तत् कर्म कर्तव्यम् इत्याह।
1009) येन येन-येन येन कर्मणा क्रोधाद्या निवार्यन्ते निषेध्यन्ते । कोदशाः क्रोधाद्याः। परिपन्थिनः प्रतिकूलाः । मनीषिणा पण्डितेन तत्कर्म स्वीकार्यम् अङ्गीकर्तव्यम् । कोदशेन मनीषिणा। अप्रमत्तेन प्रमादरहितेन । इति सूत्रार्थः ।।१११।। अथ क्रोधाद्यैर्यन्मनः न भिद्यते, तेषां महत्त्वमाह।
_1010) गुणाधिकतया-अह मन्ये । गुणिनां स गुरुः वृद्धतया पूज्यः। कया। गुणाधिकतया गुणाधिकत्वेन । तन्निमित्ते ऽपि क्रोधादिनिमित्ते ऽपि यस्य मानसं चित्तौं क्रोधाद्यैः नाक्षिप्तं न पीडितम् । इति सूत्रार्थः ॥११२॥ अथ क्रोधादिसद्भावे किं वृथा प्रयासः इत्याह ।
1011) यदि क्रोधादयः-- यदि क्रोधादयः कषायाः क्षीणा: तदा किं वृथा खिद्यते खेदः क्रियते । अथ तपोभिस्तिष्ठन्ति तपः कुर्वन्ति, तत्रापि तपःकरणे तपो ऽपार्थकम् । इति सूत्रार्थः ॥११॥ अथ कषाये स्तोके स्वसंवेदनमाह।
शत्रुभूत वे क्रोधादि जिस-जिस कार्यके द्वारा रोके जाते हैं बुद्धिमान् मनुष्यके लिए प्रमादको छोड़कर उस-उस कार्यको स्वीकार करना चाहिए ।।१११॥
__ जिसका मन क्रोधादिके कारणोंके उपस्थित होनेपर भी क्षुब्ध नहीं होता है वह गुणोंकी अधिकताके योगसे योगी और गुणीजनोंका गुरु है, ऐसा मैं मानता हूँ ॥११२।।
हे आत्मन् , यदि वे क्रोधादि विकार नष्ट हो चुके हैं तो फिर तपश्चरण के द्वारा व्यर्थ क्यों खेदको प्राप्त होता है ? और यदि वे अवस्थित हैं--नष्ट नहीं हुए हैं तो उनके होते हुए भी वह तप व्यर्थ है। तात्पर्य यह कि क्रोधादि कषायोंका निग्रह करने के विना तपश्चरण आदि सब निष्फल । कारण यह कि तपश्चरण आदिका प्रयोजन उन क्रोधादि विकारोंको जीतना ही है ॥११३।।
१.M N "मप्रयत्नेन । २.
प्यनर्थक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org