________________
३३४
ज्ञानार्णवः
1005 ) स्वामिगुरुबन्धुवृद्धानबलाबालांच जीर्णदीनादीन् । व्यापाद्य विगतको लोभार्तो वित्तमादत्ते ||१०७ 1006 ) ये केचित्सिद्धान्ते दोषाः श्वभ्रस्य साधकाः प्रोक्ताः । प्रभवन्ति निर्विचारं ते लोभादेव जन्तूनाम् || १०८ || लोभः | 1007 ) शमाम्बुभिः क्रोधशिखी निवार्यतां नियम्यतां मानमुदारमादवैः । इयं च मायार्जवशस्त्रधारया मुनीश लोभव परिग्रहात्ययात् ॥ १०९ 1008 ) यत्र यत्र प्रसूयन्ते तव क्रोधादयो द्विषः ।
तत्तत् प्रागेव मोक्तव्यं वस्तु तत्सूतिशान्तये ||११०
1005) स्वामि-लोभार्तः पुरुषः वित्तं द्रव्यमादत्ते । कीदृशः । विगतशङ्कः इह परलोकशङ्कारहितः । स्वामिगुरुबन्धुवृद्धान् स्वपतिगुरुभ्रातृज्येष्ठान् । पुनरबलान् बलरहितान् । बालांश्च बालकान् । जीर्णदीनादीन् जरितकान्दिशीकान् व्यापाद्य हत्वेति सर्वत्र योज्यम् । इति सूत्रार्थः ॥१०७॥ अथ लोभादेव सर्वप्राणिनां दोषवत्त्वमाह । आर्या ।
[ १८.१०७
1006) ये केचित् - [ सिद्धान्ते शास्त्रे । श्वभ्रस्य नरकस्य साधकाः ।] निर्विचारं निःसंदेहम् । इति सूत्रार्थः ॥ १०८ ॥ अथ क्रोधादीनां युगपन्निरासमाह ।
1007 ) शमाम्बुभि: - रे भव्य, क्रोधशिखी क्रोधाग्निः निवार्यताम् । कैः । शमाम्बुभिः उपशमजलैः। उदारमार्दवैः प्रधानऋजुतया मानं नियम्यतां बध्यताम् । च पुनः । आर्जवतः प्रतिक्षणं माया निग्रहीतव्या । च पुनः पक्षान्तरसूचकः । *लोभशान्तये निरीहतां निर्लोभताम् आश्रय । इति सूत्रार्थः ॥ १०९ ॥ अथ क्रोधादीनाम् उत्पत्तिनाशं कथयति ।
1008) यत्र यत्र - रे भव्य, तव यत्र यत्र यस्मिन् यस्मिन् वस्तुनि क्रोधादयो द्विषः वैरिणः प्रसूयन्ते उत्पद्यन्ते तत्तद्वस्तु प्रागेव पूर्वमेव भोक्तव्यम् । कस्यै । तेषां क्रोधादीनां सूतिशान्तये
लोभसे पीड़ित मनुष्य निर्दय होकर स्वामी, गुरु, बन्धु, वृद्ध, स्त्री, बालक, दुर्बल और दरिद्र ( या दुखी) आदि प्राणियोंका घात करता हुआ धनको ग्रहण करता है ॥ १०७॥ आगममें नरक के कारणभूत जो कितने ही दोष कहे गये हैं वे सब विवेकसे रहित होनेके कारण प्राणियोंके लोभके निमित्तसे ही उत्पन्न होते हैं ॥ १०८॥
हे मुनीन्द्र ! शम ( क्रोधका निग्रह - क्षमा) रूप जलसे क्रोधरूपी अग्निका निवारण करना चाहिए, मृदुतापूर्ण व्यवहारसे महान मानका निग्रह करना चाहिए, आर्जव ( सरलता ) रूप शस्त्रकी धारसे इस मायाका विनाश करना चाहिए, और परिग्रह के विनाशसे लोभको नष्ट करना चाहिए || १०२ ||
हे भव्य ! जिस-जिस वस्तु के आश्रयसे तेरे क्रोधादि शत्रु उत्पन्न होते हैं उस-उस वस्तुको उक्त क्रोधादि की उत्पत्तिको नष्ट करनेके लिए छोड़ देना चाहिए ॥११०॥
Jain Education International
१. All others except P विगतशङ्को । २. All others except P 'जैवतः प्रतिक्षणं निरीहतां चाय लोभशान्तये ।
For Private & Personal Use Only
www.jainelibrary.org