SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३३२ ज्ञानार्णवः [१८.१०४२१999 ) [यदुक्तम् कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुश्च मायाम् ।।१०४५१ 1000 ) विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ते हृदि वापवर्गात् सुखान्महामोहसखाः स्वमेव ॥१०४*२ 1001 ) मायैव विश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया। सो ऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन्॥१०४*३ _999 ) कुशलजनन-मायां दूरतः मुञ्च । कोदशीम् । कुशलजननवन्ध्यां कल्याणस्य संपादने अक्षमाम् । सत्यसर्यास्तसंध्यां सत्यमेव सूर्यः तस्य अस्तमने विलोपने संध्यां संध्यासदृशीम् । कुगतिः एव युवतिः तस्याः मालां मालासदृशीम् । मोह एव मातङ्गः मत्तगजः तस्य शालां वसतिस्थानम् । शमः शान्तिः एव कमलं तस्य विनाशने हिमानों हिमवृष्टिसदृशीम् । दुर्यशोराजधानीम् अपकीतिरेव राजधानी राजसभा तत्सदशीम् । व्यसनशतसहायां विघ्नशतोत्पादने साहाय्यक/मिति सूत्रार्थः ॥१०४२१॥ परवञ्चना स्वहानिकरीत्याह । 1000 ) विधाय-ये मायां कपटं विधाय । परस्य वञ्चनम् आचरन्ति ते महामोहसखाः मोहयुक्ताः । अपवर्गात् सुखात् मोक्षसुखात् स्वमेव आत्मानमेव वञ्चयन्ते इत्यर्थः ॥१०४*२॥ पुनस्तदेव पक्षान्तरेणाह। 1001 ) मायैव-यः दुराशयः दुष्टान्तःकरणः धनाशया द्रव्येच्छया मायैव विश्वासविलासमन्दिरं कुरुते । सः पतन्तम् आगच्छन्तम् अनर्थसार्थम् अनर्थसमूहं न ईक्षते न पश्यति । यथा पयः पिबन बिडालः मार्जारः लगुडं यष्टिं न पश्यति तद्वत् इत्यर्थः ॥१०४*३ ॥ पुनस्तदेवाह । ___- [ कल्याणको जन्म न देनेवाली, सत्यरूप सूर्यका अस्त करनेमें संध्याके समान, - नीच गतिरूप युवतिकी मानो माला, मोहरूप हाथीका निवासस्थान, शान्तिरूप कमलोंको हिमवृष्टि जैसी, अकीर्तिकी मानो राजनगरी और सैंकड़ों संकटोंको साहाय्य करनेवाली मायाको, हे भब्य, तू दूर रख ॥१०४२१॥ जो लोग मायासे विविध उपाय बनाकर लोगोंको ठगते हैं वे महामोहके मित्र होकर अपनेको मोक्षसुखसे वञ्चित रखते हैं ॥१०४*२।। ___ जो दुष्ट द्रब्यकी इच्छासे मायाको विश्वासका विलासमन्दिर बनाता है, यानी कपटसे जो दूसरोंका विश्वास नष्ट करता है, वह अपनेपर आनेवाले संकटोंके समूहको नहीं देखता है । जिस तरह दूध पीनेवाला मार्जार लकड़ीको नहीं देखता ॥१०४५३।। 8. Thse four verses are found only in XI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy