SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ -५३ ] १८. अक्षविषय निरोधः 940 ) जयन्ति यमिनः क्रोधं लोकद्वयविराधकम् । तन्निमित्ते ऽपि संप्राप्ते भावयन् भावनामिमाम् ||५० ॥ तद्यथा 941 ) यद्यद्ये कुरुते को ऽपि मां स्वस्थं कर्मपीडितम् । चिकित्सित्वा स्फुटं दोषं स एवाकृत्रिमः सुहृत् ॥५१ 942 ) हत्वा स्वपुण्यसंतानं मद्दोषं यो निकृन्तति । तस्मै यदि रुष्यामि मदन्यः को धमस्तदा ॥५२ 943 ) आक्रुष्टो' ऽहं हतो नैव हतो वा न द्विधाकृतः । मारितो न हतो धर्मो मदीयो ऽनेन बन्धुना ॥ ५३ 940 ) जयन्ति - हे भव्य, इमां भावनां भावय । यमिनो व्रतिनः क्रोधं जयन्ति । कीदृशं क्रोधम् । लोकद्वयविराधकम् इहपरलोकनाशकम् । क्रोधनिमित्ते क्रोधकारणे संप्राप्ते सतीति सूत्रार्थः ॥ ५० ॥ अथ कर्मणः दुःसाध्यत्वमाह । 941 ) यद्यद्य - अद्य यदि को ऽपि मां कर्मपीडितं स्वस्थं सुखिनं करोति । किं कृत्वा । स्फुटं प्रगटं दोषं कर्मजनितं चिकित्सित्वा चिकित्सां कृत्वा । स एवाचिकित्सकः अकृत्रिमः अकृतः सुहृत् मित्रम् । इति सूत्रार्थः ॥ ५१ ॥ अथ पुनः कर्मासाध्यतामाह । ३१३ 942 ) हत्वा स्वपुण्य - इह जगति यः पुमान् मद्दोषं मम कर्मजं दोषं निकृन्तति छेदयति । किं कृत्वा । स्वपुण्यसंतानं निजपुण्यसमूहं हत्वा । यथा यस्मात् । तस्मै मद्दोषनिकृन्तनकर्त्रे यदि रुष्यामि रोषं कुर्वे, तदा मदन्यः मत्तो ऽधमो ऽन्यः कः । न कोऽपि । इति सूत्रार्थः ॥ ५२ ॥ अथ यतिनः क्षान्ति सद्रूपमाह । 943 ) आष्टोऽहं - अनेन बन्धुना आक्रुष्टो आक्रोशितो ऽहं हतो नैव । एवकारः पक्षान्तरसूचकः । वा अथवा । हतश्चेत् द्विधा न कृतः द्विखण्डो न कृतः । द्विधा कृतश्चेत् हतो न । कः । मदीयो धर्मः । इति सूत्रार्थः ॥ ५३ ॥ अथ निःश्रेयसि पथि प्रवृत्तानां विघ्ना भवन्तीत्याह । Jain Education International मुनि क्रोध के निमित्तके उपस्थित होनेपर भी इस आगे कही जानेवाली भावनाका चिन्तन करते हुए दोनों लोकोंके विघातक उस क्रोधपर विजय प्राप्त किया करते हैं ।। ५० ।। वह भावना इस प्रकार है- यदि आज कोई कर्मसे पीड़ित मेरे दोषकी चिकित्सा करके मुझे स्वस्थ - नीरोग ( आत्मस्थ ) - करता है तो उसे स्पष्टतया अकृत्रिम ( स्वयं प्राप्त ) मित्र ही समझना चाहिए ।। ५१ ।। जो अपने की परम्पराको नष्ट करके मेरे दोषको दूर करता है उसके ऊपर यदि मैं यहाँ क्रोध करूँगा तो मुझसे निकृष्ट दूसरा कौन होगा ? कोई नहीं ॥ ५२ ॥ यदि कोई अपशब्द कहता है - गाली देता है - तो मुनि उस समय यह विचार करते हैं कि मेरे लिए इसने अपशब्द हो तो कहे हैं, मुझे कुछ मारा तो नहीं है । यदि वह कदाचित् १. All others except PJNT विरोधकम् । २. M STF V X Y संप्राप्ते भजन्तो, N भावयेत् भावना । ३. PLF तद्यथा । ४. LF V यदद्य, T यद्यपि, J यथाद्य । ५. F आकृष्टोऽहं । ६. N तो । ७. Y हतो नैव द्विधा । ४० For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy