SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १८. अक्षविषयनिरोधः 932 ) अयं समुत्थितः क्रोधो धर्मसारं सुरक्षितम् । निर्दहत्येव निःशङ्क शुष्कारण्यमिवानलः ॥४२ 933 ) पूर्वमात्मानमेवासौ क्रोधान्धो दहति ध्रुवम् । पश्चादन्यान्न वा लोको विवेकविकलाशयः ॥४३ 934 ) कुर्वन्ति यतयो ऽप्यत्र क्रुद्धास्तत्कर्म निन्दितम् । हत्वा लोकद्वयं येन विशन्ति धरणोतलम् ॥४४ 935 ) क्रोधाद् द्वीपायनेनापि कृतं कर्मातिगर्हितम् । दग्धा द्वारवती' नाम पू: स्वर्गनगरी निभा ॥४५ _932 ) अयं समुत्थितः-अयं क्रोधः समुत्थितः उत्पन्नः धर्मसारं धर्मपरमार्थ निर्दहत्येव । कीदृशम् । सुरक्षितम् । कीदृशः । निःशङ्कः । शुष्कारण्यं शुष्ककाष्ठवनम् । अनल इव, यथा अनलो ऽग्निः शुष्कारण्यं निर्दहत्येव । इति सूत्रार्थः । ४२।। अथ क्रोधवतः स्वान्यघातकत्वमाह। 933 ) पूर्वमात्मानम्-असौ क्रोधान्धः। ध्रुवं निश्चितम् । पूर्व प्रागेवात्मानं दहति । पश्चात् अन्यान् । वा अथवा । लोकः क्रोधान्धः न दहति । अपि तु दहत्येव । कोदृशो लोकः । विवेकविकलाशयः विवेकेन शून्यचित्तः । इति सूत्रार्थः ॥४३॥ अथ मुनयो ऽपि क्रोधवशात् कुत्सितं कर्म कुर्वन्तीत्याह। 934 ) कुर्वन्ति–यतयो ऽपि अत्र जगति क्रुद्धाः सन्तः तत्कर्म निन्दितं निन्दास्पदं कुर्वन्ति । येन कर्मणा लोकद्वयम् इहपरलोकद्वयं हत्वा धरणीतलं विशन्ति प्रविशन्तीति सूत्रार्थः ।।४४।। अथ क्रोधकर्तारं दृष्टान्तेनाह। __935) क्रोधात्-पूः पुरी । स्वर्गनगरीसदृशा। [ द्वीपायनेन अतिहितमतिनिन्दितं कर्म कृत्वा दग्धा ] । सुगमम् । इति सूत्रार्थः ॥४५॥ अथ पुनः क्रोधस्य स्वरूपमाह । जिस प्रकार अग्नि सूखे वनको निश्चित ही भस्म कर देती है उसी प्रकार उत्पन्न हुआ यह क्रोध अतिशय संरक्षित धर्मरूप धनको नियमसे भस्म कर देता है ॥ ४२ ॥ क्रोधमें अन्धा हुआ प्राणी विवेकसे रहित होकर पूर्व में निश्चयसे अपने आपको ही जलाता है-स्वयं सन्तप्त होता है । तत्पश्चात् वह अन्य प्राणियोंको जलाता है और कदाचित् नहीं भी जलाता है । ४३॥ अन्य मनुष्योंकी तो बात ही क्या है, किन्तु मुनिजन भी क्रोधको प्राप्त होकर ऐसे निन्दित कार्यको करते हैं कि जिसके आश्रयसे वे अपने दोनों लोकोंको नष्ट करके पृथिवीतलमें प्रविष्ट होते है-नरकमें नारकी उत्पन्न होते हैं ।। ४४ ।। ___ क्रोधके वशीभूत होकर द्वीपायन मुनिने भी स्वर्गपुरीके सदृश द्वारिकापुरीको जलाकर अतिशय निन्दित कार्य किया है ( देखिए, ह. पु. ६१, १७-९०) ॥ ४५ ॥ २. All others except P N T°दन्यन्न । ३. All others except १. LT F V निःशङ्क: 1 PN T द्वारावती नाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy