SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३०६ ज्ञानार्णवः 915 ) स्वज्ञानादेव मुक्तिः स्याज्जन्मबन्धस्ततो ऽन्यथा । एतदेव जिनोद्दिष्टं सर्वस्वं बन्धमोक्षयोः ॥२८ 916 ) आत्मैव मम विज्ञानं दृग्वृत्तं चेति निश्चयः । मत्तेः सर्वेऽप्यमी भावा बाह्याः संयोगलक्षणाः ॥ २९ 917 ) अयमात्मैव सिद्धात्मा स्वशक्त्यपेक्षया स्वयम् । व्यक्तीभवति विज्ञानवह्निनात्यन्तसाधितः ॥ ३० 918 ) एतदेव परं तत्त्वं ज्ञानमेतद्धि शाश्वतम् । अतोऽन्यो यः श्रुतस्कन्धः स तदर्थं प्रपञ्चितः || ३१ (915) स्वज्ञानादेव - बन्धमोक्षयोः सर्वस्वं जिनोद्दिष्टं जिनैः कथितम् । एतत्किम् । स्वज्ञानादेवात्मज्ञानादेव मुक्ति: स्यात् । तत अन्यथा आत्मज्ञानाभावात् । जन्मबन्धः संसारपर्यटनं स्यादिति सूत्रार्थः ||२८|| आत्मनः सकाशात् सर्वे भावा इत्याह । 916 ) आत्मैव - आत्मैव मम विज्ञानम् । च पुनः । दृश्यते दर्शनम् । वृत्तमाचारः इति निश्चयः । अमी सर्वे ऽपि भावा मत्तो बाह्याः संयोगलक्षणाः स्युरिति सूत्रार्थः ॥ २९ ॥ अथात्मनः सिद्धत्वमाह । (917) अयमात्मैव -अयम् आत्मैव सिद्धात्मा स्वयं स्वशक्त्यपेक्षया व्यक्तीभवति प्रगटीभवति । कीदृशः आत्मा । "सद्ध्यानवह्निना अत्यन्तसाधितः । इति सूत्रार्थः ॥ ३० ॥ अथात्मनः स्वरूपवर्णनमाह । [ १८.२८ 918) एतदेव परं - एतदेवात्मस्वरूपमेव परं प्रकृष्टं तत्त्वं परमार्थम् । हि निश्चितम् । एतदेव शाश्वतं ज्ञानम् । अत आत्मस्वरूपात् अन्यो यः श्रुतस्कन्धः स श्रुतस्कन्धः तदर्थमात्मस्वरूपार्थ प्रपञ्चितः विस्तारितः । इति सूत्रार्थः ||३१|| अथात्मस्वरूपवतो रत्नत्रयं भवतीत्याह । अपने इस आत्मस्वरूपके ज्ञानसे ही मुक्ति प्राप्त होती है और इसके विपरीत उस आत्मस्वरूपको न जाननेसे जन्मका सम्बन्ध बना रहता है - जन्म-मरणस्वरूप संसारकी परम्परा चालू रहती है ।। २८ ।। मेरी आत्मा ही सम्यग्दर्शन, सम्यग्ज्ञान और सम्यकूचारित्र है; यह मुझे निश्चय हो चुका । मुझसे संयोग रखनेवाले ये सब ही बाह्य पदार्थ वस्तुतः मुझसे भिन्न हैं ॥ २९ ॥ अपनी शक्तिकी अपेक्षा यह आत्मा ही स्वयंसिद्ध आत्मा है । उसे विशिष्ट ज्ञान (विवेकज्ञान) रूप अग्निके द्वारा अतिशय सिद्ध करनेपर वह प्रगट में सिद्ध हो जाती है ॥ ३० ॥ उपर्युक्त निश्चय ही उत्कृष्ट तत्व है और वही शाश्वत ज्ञान है, इसके अतिरिक्त अन्य जो श्रुतस्कन्ध - आगमसमूह अथवा आगमरूप वृक्षका स्कन्ध ( तना ) - है उसका विस्तार इस उत्कृष्ट तत्रके जाननेके लिये ही किया गया है ॥ ३१ ॥ १. All others except P विज्ञानं । २. N Y शेषाः सर्वे । पेक्षया .... सद्ध्यानवह्निना । Jain Education International ३. All others except P शक्त्या For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy