________________
-३१ ]
१६. परिग्रहदोषविचारः
848 ) अत्यल्पे धनजम्बाले निमग्नो गुणवानपि । जगत्यस्मिन् जनः क्षिप्रं दोषलक्षैः कलङ्क्यते ॥ २८ 849 ) संन्यस्तसर्वसंगेभ्यो गुरुभ्यो ऽप्यतिशङ्क्यते । धनिभिर्धनरक्षार्थं रात्रावपि न सुप्यते ।। २९ 450 ) सुतस्वजनभूपालदुष्टचौरारिविड्वरात् ।
बन्धुमित्रकलत्रेभ्यो धनिभिः शङ्क्यते ऽनिशम् ||३० (851) कर्मबध्नाति यज्जीवो धनाशाकश्मलीकृतः । तस्य शान्तिर्यदि क्लेशाद् बहुभिर्जन्मकोटिभिः || ३१
848 ) अत्यल्पे - गुणवानपि चारित्रादिगुणयुक्तोऽपि अस्मिन् जगति क्षिप्रं दोषैः कलङ्क्यते । कीदृशः । अत्यल्पे अतिस्तोके धनजम्बाले वित्तकर्दमे मग्नोऽपि मज्जितोऽपि । इति सूत्रार्थः ॥२८॥ अथ पुनः संगत्यागस्वरूपमाह ।
1
२८५
(849) संन्यस्तसर्वधनिभिर्वित्तरक्षकैर्धन रक्षार्थं रात्रावपि न सुप्यते शयनं करोति [ क्रियते ] | गुरुभ्यो ऽपि तत्त्वप्रख्यायकेभ्यो ऽपि अतिशङ्क्यते शङ्कां करोति । कीदृशेभ्यो गुरुभ्यः । संन्यस्तसर्वसंगेभ्यः दूरीकृतसर्वपरिग्रहेभ्यः । इति सूत्रार्थः ॥ २९ ॥ अथ धनिभ्यः सर्वेभ्यः शङ्क्यत
इत्याह ।
850 ) सुतस्वजन - धनिभिर्भृशमत्यर्थं शक्यते । केभ्यः । बन्धुमित्रकलत्रेभ्यः । सुतस्वजनभूपालदुष्टचौरारिविड्वरात् पुत्रपरिजन [ नृप] दुष्टचौरशत्रुकलहात् । इति सूत्रार्थः ||३०|| अथ धने वाञ्छां कुर्वतो यत् कर्मबन्धनं तस्य दुःसाध्यत्वमाह ।
1851 ) कर्म बध्नाति - जीवः धनाशाकश्मलीकृतः वित्तवाञ्छामलिनीकृतः सन् यत्कर्म बध्नाति तस्य कर्मणः शान्तिर्यदि बहुभिर्जन्मकोटिभिः भवेदिति सूत्रार्थः ||३१|| अथ सर्वसंगपरित्यागे योगी ध्यानं करोतीत्याह ।
Jain Education International
इस लोक में थोड़ी-सी भी घनरूप काईके भीतर फँसकर गुणवान् मनुष्य भी शीघ्र ही लाखों दोषोंसे कलंकित हो जाता है ||२८||
धनवान् मनुष्य जिन महात्माओंने सर्व परिग्रहसे ममत्वभावको छोड़ दिया है उन गुरुओं की ओर से भी शंकित रहा करते हैं तथा वे उस धनकी रक्षा के लिए रात्रिमें सोते भी नहीं हैं ||२९||
धनी जन पुत्र, कुटुम्बीजन, राजा, दुष्ट, चोर, शत्रु, दुराचारी, बन्धु (भाई), मित्र और स्त्रीकी ओर से भी शंकित रहा करते हैं ॥ ३० ॥
की तृष्णा मलिन किया गया जीव जिस प्रबल कर्मको बाँधता है उसकी शान्ति क्लेशका अनुभव करते हुए करोड़ों जन्मों में कदाचित् ही हो पाती है। अभिप्राय यह है कि परिग्रह के व्यामोह से जो दृढ़ कर्म बाँधा जाता है वह प्राणीको करोड़ों जन्म तक दुःख देता है ||३१||
१. M F V दोषलक्ष्यैः । २. All others except PY भृशं, Y ध्रुवम् ।
For Private & Personal Use Only
www.jainelibrary.org