________________
२४२
[१३.७
ज्ञानार्णवः 706 ) कश्चिद् व्रते यथा दीपं निर्वाणमपि नन्दितम् ।
स्मरमूढः सुखं तद्वद् दुःखमप्यत्र मैथुनम् ॥७ 707 ) किंपाकफलसमानं वनितासंभोगसंभवं सौख्यम् ।
आपाते रमणीयं प्रजायते विरसमवसाने ।।८ 708 ) मैथुनाचरणे कर्म निघृणैः क्रियते ऽधमम् ।
पीयते वदनं स्त्रीणां लालाम्बुकलुषीकृतम् ॥९ 709 ) कण्डूयनं तनुस्वेदाद्वेत्ति कुष्ठी यथा सुखम् ।
तीव्रस्मररुजातङ्कपीडितो मैथुनं तथा ॥१०
706 ) कश्चिद ब्रूते-कश्चिद्यथा निर्वाणं शमितमपि दीपं नन्दितं ब्रूते, तद्वत् अत्र जगति मैथुनं दुःखमपि सुखं स्मरमूढः ब्रूते। इति सूत्रार्थः ।।७।। अथ वनितासुखमन्ते विरसं तदाह । आर्या।
___707) किपाक-वनितासंभोगसंभवं सौख्यं किंपाकफलसमानं किंपाकफलसदृशं प्रजायते। पुनः कीदृशम् । आपाते रमणीयं प्रथमतः आगमने रमणीयम् । पुनः कीदृशम् । अवसाने प्रान्ते विरसम् । इति सूत्रार्थः ॥८॥ अथ मैथुनाधिकारे निन्दितं कर्म करोति तदाह ।
____708 ) मैथुनाचरणे--निघृणैनिदयैरधर्म कर्म क्रियते । क्व । मैथुनाचरणे । सुगमम् । स्त्रीणां वदनं पीयते । कीदृशम् । लीलाकलुषीकृतं लालाजलमलिनीकृतमित्यर्थः ।।९।। अथ मैथुनस्य पीडनमाह।
709) कण्डूयनं-यथा कुष्टी सुखं वेत्ति जानाति । कस्मात् । कण्डूयनतनुस्वेदात् । कण्डूयनेन तनोः स्वेदः तस्मात् । तथा मैथुनं सुखं तीवस्मररुजातङ्कपीडिताः तीव्रकन्दर्परोगभयभीताः जानन्ति । इति सूत्रार्थः ।।१०।। अथाङ्गनानाम् अङ्गकुत्सितत्वमाह ।
जिस प्रकार कोई बुझे हुए भी दीपकको नन्दित ( बढ़ा हुआ) कहता है उसी प्रकार कामसे मूढ हुआ मनुष्य यहाँ दुखदायक भी मैथुनको सुखकर कहता है ।।७।।
___स्त्रीके सम्भोगसे उत्पन्न होनेवाला सुख किम्पाक फल (एक विषैला फल) के समान भोगनेके समयमें रमणीय प्रतीत होता है, परन्तु अन्तमें वह नीरस-परिणाममें दुखदायकहोता है ॥८॥
____ कामी जन मैथुनके सेवनमें घृणासे रहित होकर जघन्य कार्य करते हैं, वे लारके जलसे मलिन हुए स्त्रियोंके मुखका पान करते हैं ॥९॥
___ जिस प्रकार शरीरके तापसे पीड़ित कुष्ठरोगी खुजलानेको सुखकारक मानता है उसी प्रकार तीव्र कामरूप रोगके तापसे पीड़ित मनुष्य मैथुनको सुखकारक मानता है। परन्तु यह १. M N दोपनिर्वाण । २. J दुःखमत्रापि मैं । ३. All others except P M N मैथुने । ४. All others except PNT कण्डूयनतनु । ५. J पीडितमैथुनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org