SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ -२५ ] २१५ ११. कामप्रकोपः 614 ) जन्तुजातमिदं मन्ये स्मरवह्निप्रदीपितम् । मजत्यगाधमध्यास्य पुरन्ध्रीकायकर्दमम् ॥२२ 615 ) अनन्तव्यसनासारदुर्गे भवमरुस्थले । स्मरज्वरपिपासार्ता विपद्यन्ते शरीरिणः ॥२३ 616 ) घृणास्पदमतिक्रूरं पापाढ्यं योगिदूषितम् । जनो ऽयं कुरुते कर्म स्मरशार्दूलचर्वितः ॥२४ 617 ) दिङ्मूढमर्थ विभ्रान्तमुन्मत्तं शङ्किताशयम् । विलक्षं कुरुते लोकं स्मरवैरी विजृम्भितः ।।२५ 614 ) जन्तुजातम्-अहम एवं मन्ये । इदं जन्तुजातं प्राणिसमूहः अगाधं पुरन्ध्रोकायपङ्कम् अध्यास्य आश्रयित्वा मजति निमज्जति । कोदृशम् । स्मरवह्निप्रदीपितं कन्दग्निज्वलितम् इति सूत्रार्थः॥२२।। अथ शरोरिणां संसारभ्रमणमाह । 615 ) अनन्त-शरीरिणः विपद्यन्ते म्रियन्ते। कीदृशाः। स्मरज्वरेण या पिपासा तृषा तया आर्ताः पीडिताः सन्तः । क्व । भवः संसारः एव मरुस्थलं निर्जलप्रदेशः तत्र । पुनः कीदृशं तत् स्थलम् । अनन्तानि यानि व्यसनानि दुःखानि तेषाम् आसारेण वृष्टया दुर्ग गन्तु कठिनम् इत्यर्थः ॥२३॥ स्मरार्तस्य चेष्टितमाह।। 616 ) घणास्पदम्-स्मर एव शार्दूलः व्याघ्रः तेन चर्वितः ग्रसितः अयं जनः घृणास्पदं निन्दितम् । अतिक्रूरम् अतिनिष्ठुरं पापपूर्ण योगिभिः दूषितं कर्म कुरुते । इत्यर्थः ।।२४।। स्मरवैरिणः चेष्टितमाह। ___617 ) दिङ्मूढं-विजृम्भितः प्रवृद्धः स्मरः एव शत्रुः लोकं दिङ्मूढं दिग्ज्ञानरहितं, शङ्किताशयं संशययुक्तान्तःकरणं तथा विलक्षं लज्जितं करोति ।।२५।।] अथ शरीरिणां संसारभ्रमणम् आह । यह प्राणिसमूह कामदेवरूप अग्निसे सन्तप्त होकर स्त्रीके शरीररूप अथाह कीचड़का आश्रय लेता हुआ उसके भीतर डूब जाता है ऐसा मैं समझता हूँ ॥२२॥ ___ अनन्त दुखरूप सैन्यकी व्याप्तिसे दुर्गम ( अथवा अनन्त दुखसे परिपूर्ण होकर वर्षाकी दुर्लभतासे सहित ) ऐसे संसाररूप मरुस्थल के भीतर कामज्वररूप प्याससे पीड़ित प्राणी खेदको प्राप्त होते हैं ॥२३॥ यह प्राणी कामदेवरूप सिंहका ग्रास बनकर जिस घृणित व अतिशय क्रूरतापूर्ण कृत्यको करता है वह पापसे परिपूर्ण होने के कारण योगीजनोंके द्वारा निन्दित है ॥२४॥ कामदेवरूप शत्रुका विकास लोकको दिग्मूढ-दिशाज्ञानसे रहित, भ्रान्तिसे संयुक्त, उन्मत्त-सुध-बुधसे रहित, शंकित चित्तवाला और आश्चर्यचकित करता है ॥२५॥ १. LS कायकर्दमे । २. M N दिग्मढमतिविभ्रान्तं । ३. All others except PM विलक्ष्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy