________________
-३०
८. अहिंसाव्रतम् 5.10 ) धर्मबुद्धयाधमैः पापं जन्तुघातादिलक्षणम् ।
क्रियते जीवितस्यार्थे पोयते विषमं विषम् ॥२८ 501 ) एतत्समयसर्वस्वमेतत्सिद्धान्तजीवितम् ।।
यजन्तुजातरक्षार्थ भावशुद्धया दृढं व्रतम् ।।२९ 502 ) श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च ।
अहिंसालक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥३०
धर्म क्षान्त्यादिधर्म विहाय । कीदृशम् । शमशीललाञ्छितम् । सुगमम् । पुनः कोदृशं धर्मम् । दयावहम् । पुन: कोदृशं धर्मम् । भूतहितं प्राणिहितकारिणम् । पुनः कीदृशम् । गुणाकरं ज्ञानादिगुणसमूहमित्यर्थः । कीदृशा मिथ्यात्विनः । मदोद्धताः मदोत्कटाः। पुनः कीदृशाः । अक्षकषायवञ्चिताः अक्षाणि इन्द्रियाणि, कषायाः क्रोधादयः तैर्वञ्चिताः। इति सूत्रार्थः ॥२७॥ अथ धर्मबुद्धया जन्तुघातफलमाह।
500 ) धर्मबुद्धया-अधमैर्जन्तुघातादिलक्षणं पापं धर्मबुद्धया क्रियते । कस्मिन्नर्थे । जीवितव्यस्यार्थे । तैविषम सहस्रघाति विष हालाहलादि पोयते ॥२८॥ अथ व्रतस्वरूपमाह।
501 ) एतत्समय-यद् दृढव्रत जन्तुजातरक्षार्थ क्रियते । कया भावशुद्धया। एतद् दृढव्रतं" समयसर्वस्वं सिद्धान्तपरमार्थम् एतत्सिद्धान्तजीवितम् । इति सूत्रार्थः॥२९।। अत्र व्रतसाक्षकत्वमाह।
502 ) श्रूयते-सर्वशास्त्रेषु श्रूयते। च पुनः । सर्वेषु समयेषु सिद्धान्तेषु श्रूयते । अहिंसालक्षणो जीवदयारूपो धर्मः । च पक्षान्तरे। तद्विपक्षः हिंसालक्षणः पातकं भवति । इति सूत्रार्थः ॥३०॥ अहिंसावर्णनमाह।
का उपशम) व शीलसे चिह्नित, दयाको धारण करनेवाले, प्राणियोंको हितकर एवं गुणोंकी खानिस्वरूप धर्मको छोड़कर दुःखकी शान्तिके लिए हिंसाका भी उपदेश करते हैं ॥२७॥
जो नीच मनुष्य धर्मबुद्धिसे प्राणिघातादिरूप पापको करते हैं वे जीवित रहनेकी इच्छासे भयानक विषको पीते हैं --जिस प्रकार विषको पीकर मनुष्यका जीवित रहना असम्भव है उसी प्रकार प्राणिघातसे धर्मका होना भी असम्भव है ॥२८॥
जो जीवोंकी रक्षाके लिए परिणामोंकी निर्मलतापूर्वक दृढ़तासे व्रत किया जाता हैप्राणिहिंसादिका परित्याग किया जाता है-यह सब मतोंका सार है और यही आगमका प्राण है ॥२९॥
यह सब ही शास्त्रों में और सब ही मतोंमें सुना जाता है कि धर्मका लक्षण अहिंसा है और इसके विपरीत जो प्राणियोंका घात किया जाता है वह पाप है॥३०॥
१. M B दृढव्रतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org