SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १६२ ज्ञानार्णवः [७.६ 454 ) देवनारकयो यस्त्ववधिर्भवसंभवः । पड्विकल्पश्च शेषाणां क्षयोपशमलक्षणः ॥६ पदप्रमाणं स्यात् । अथ चतुर्थिकास्तिनास्तिप्रवादे षष्टिलक्षाणां पदप्रमाणं भवति । अथ पञ्चमज्ञानप्रवादे पदसंख्योच्यते । एकोनशतलक्षा एकोनशतसहस्राणि नवशतानि एकोनशतं पदप्रमाणं भवति । अथ षष्ठे सत्यप्रवादे षड्भिरधिका कोटिः पदानां संख्या वर्तते । ततश्च सप्तमात्मप्रवादे षड्विंशतिकोटयः पदप्रमाणं भवेत् । ततश्चाष्टमकर्मप्रवादे एका कोटिरशीतिलक्षाः पदसंख्या। नवमे प्रत्याख्यानप्रवादे चतुरशीतिलक्षं पदानां प्रमाणं भवति । ततो दशमे विद्यानुप्रवादे एका कोटिर्दशलक्षाणि पदानां संख्या भवति। ततश्चैकादशे कल्याणप्रवादे कोटिषड्विंशतिपदप्रमाणसंख्या ज्ञातव्या । ततो द्वादशमे प्राणवाये त्रयोदशकोटयः पदानां प्रमाणं भवति । अथ त्रयोदशे लोकविशाले नवकोटयः पदप्रमाणं भवति । ततश्चतुर्दशे लोकबिन्दुसारे पदप्रमाणमाह। द्वादशकोटयः पञ्चाशल्लक्षाः पञ्चाधिकाः पदप्रमाणं भवति । अथ सर्वदृष्टिप्रवादपदप्रमाणमुच्यते । अष्टोत्तरशतकोटयो ऽष्टषष्टिलक्षा षट्पञ्चाशत्सहस्राणि पञ्चाधिकानि द्वादशाङ्गपदप्रमाणसंख्या भवति । अथ चतुर्दशपूर्ववस्तुसंख्यामाह । पञ्चनवत्यधिकशतं वस्तुप्रमाणं वर्तते । एकस्मिन् वस्तुनि विंशतिः प्राभृता ज्ञातव्याः। अथ सर्वश्रुताक्षरप्रमाणमाह । एकाष्टचतुश्चतुःषट्सप्तचतुःचतुःशून्यसप्तत्रिसप्तशून्यनव कषडेकपञ्चप्रमाणाङ्गाक्षरप्रमाणमङ्गप्रविष्टं सर्वश्रतेतिव्यम। चतर्दशप्रकीर्ण अष्टौ कोटयो दशलक्षा अष्टौ सहस्राणि एकशतं पञ्चसप्तत्यधिकमक्षप्रमाणं भवति । इति सूत्रार्थः ।।५।। अवधिज्ञानमाह। 454 ) देवनारकयोः-अवधिद्विविधः। भवप्रत्ययः क्षयोपशमलक्षणः। तत्र भवप्रत्ययो देवनारकाणाम् । शेषाणां जीवानां क्षयोपशमलक्षणः । स षड्विकल्पः षड्भेदः । अनुगामि-सूर्यप्रतापवन्नीत्वा। अननुगामि-समुद्रवत् पश्चात् कल्लोला उत्पद्यन्ते । वर्धमानम्-यथेन्धनैरग्निवर्धते तथा संयमेन वृद्धिं याति । हीयमानम्-दीपकवत् मन्दं मन्दं याति यथा वृत्तिः हीना भवति । अवस्थितः हारवत् एकरूपकान्तिः। अनवस्थितः लिङ्गवत् क्वापि वर्धते क्वापि विघटते। तथा विशद्धतां प्राप्य वर्धते, मलिनतां प्राप्य विघटति । अवधिज्ञानावरणोयक्षयोपशमात् जानाति । सो ऽपि विविधः । परमावधिः सर्वावधिर्देशावधिः। परमावधिश्चरमदेहे भवति । स्थूल भवप्रत्यय अवधिज्ञान देव और नारकियोंके जानना चाहिए। क्षयोपशमरूप अवधिज्ञान शेष मनुष्य और तियचोंके होता है और वह छह प्रकारका है। विशेषार्थ-द्रव्य, क्षेत्र, काल और भावकी मर्यादायुक्त जो रूपी द्रव्य-विषयक अतींद्रिय निर्मल ज्ञान होता है उसे अवधिज्ञान कहते हैं । वह दो प्रकारका है-भवप्रत्यय और क्षयोपशमनिमित्तक । जिस अवधिज्ञानका कारण मुख्यतास भव ह उसे भवप्रत्यय अवधिज्ञान कहा जाता है और वह देव और नारकियोंके होता है । इसका अभिप्राय यह है कि देव और नारक भवको पाकर प्राणियोंके नियमतः यथासम्भव अवधिज्ञानावरणका क्षयोपशम होता ही है, इसीलिए क्षयोपशमके होनेपर भी इसे भवप्रत्यय कहा गया है। विशेषता इतनी समझनी चाहिए कि उक्त देव-नारकियोंमें जो जीव सम्यग्दृष्टि होते हैं उनके समीचीन अवधिज्ञान तथा मिथ्यादृष्टियोंके कुत्सित अवधिज्ञान ( विभंग) होता है। जिस अवधिज्ञानमें क्षयोपशमकी ही प्रमुखता होती है-- देव-नारकियोंके समान भवकी प्रमुखता नहीं होती-वह क्षयोपशमनिमित्तक कहा जाता है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy