________________
-]
७. ज्ञानोपयोगः
Jain Education International
१ सूत्रकृतम् २ स्थानम् ३ समवायः ४ व्याख्याप्रज्ञप्तिः ५ ज्ञातृधर्मकथा ६ उपासकाध्ययनम् ७ अन्तकृद्दशाङ्गम् ८ अनुत्तरोपपादिकदशाङ्गम् ९ प्रश्नव्याकरणम् १० विपाकश्रुतम् ११ दृष्टिवादः १२ इति । पूर्वं पदाक्षरप्रमाणं दर्शयति । षोडशलक्षप्रमाणकोटयः चतुस्त्रिशत्सहस्रकोटयः अशीतिलक्षसप्तसहस्राणि अष्टशतानि अष्टाशीतियुक्तानि मध्यमपदाक्षराणि ज्ञेयानि । एतत्पदप्रमाणेनैव द्वादशाङ्गपदसंख्या क्रियते । तत्राचारे अष्टादशसहस्रं ( १८००० ) पदानां भवति । ततः सूत्रकृते षट्त्रिंशत्सहस्रपदप्रमाणं (३६००० ) । ततस्तृतीयाङ्गे स्थानाख्ये द्विचत्वारिंशत्सहस्राणि (४२०००) पदानि भवन्ति । ततः समवाये एकलक्षचतुःषष्टिसहस्राणि (१६४०००) भवन्ति । ततः पञ्चमाङ्गे व्याख्याप्रज्ञप्तो द्वे लक्षे अष्टाविंशतिसहस्रप्रमाणानि (२२८०००) पदानि भवन्ति । पञ्च लक्षाणि षट्पञ्चाशत्सहस्राणि ( ५५६०००) पदानां भवन्ति ज्ञातृधर्मकथायाम् । तत उपासकाध्ययने एकादश लक्षाणि सप्ततिसहस्राणि ( ११७०००० ) पदानाम् । ततश्चान्तकृद्दशायां त्रयोविंशतिलक्षाणां अष्टाविंशतिसहस्राणि (२३२८०००) पदानां भवन्ति । ततश्चानुत्तरोपपादिकदशायां द्विनवतिर्लक्षाणां चतुश्चत्वारिंशत्सहस्राणि (९२४४०००) पदसंख्या भवति । ततश्च प्रश्नव्याकरणे त्रिनवतिलक्षाणि षोडशसहस्राणि (९३१६०००) पदानाम् । ततश्च विपाकश्रुते कोटिरेका चतुरशीतिसहस्राणि (१००८४०००) पदानां भवन्ति । सर्वेषां चाङ्गपदानां प्रमाणं दर्शयति । चतस्रः कोटयः पञ्चदश लक्षाणि सहस्रद्वयं च ( ४१५०२००० ) सर्वाङ्गाणां पदप्रमाणं भवति । तत्र परिकर्मणां पदप्रमाणं दर्शयति । तत्र चन्द्रप्रज्ञप्त्यां षट्त्रिंशत् लक्षाणां पञ्चसहस्राणि ( ३६०५००० ) पदानां भवन्ति । ततश्च सूर्यप्रज्ञप्त्यां पञ्चलक्षाणि सहस्रत्रयं ( ५०३००० ) पदानां भवति । जम्बूद्वीपप्रज्ञप्त्यां लक्षत्रयं पञ्च सहस्राणि ( ३०५००० ) पदानि । ततश्च द्वीपसागरप्रज्ञप्त्यां द्विपञ्चाशल्लक्षाणि षट्त्रिंशत्सहस्राणि ( ५२३६००० ) पदानां भवन्ति । ततश्च व्याख्याप्रज्ञप्त्यां चतुरशीतिर्लक्षाणां षट्त्रिंशत्सहस्राणि (८४३६०००) पदानि भवन्ति । एवं पञ्चप्रकारपरिकर्मणि पदप्रमाणं दर्शयति । एका कोटिरेकाशीतिर्लक्षा पञ्च सहस्राणि पदानां संख्या भवति । अथ दृष्टिवादद्वितीयभेदसूत्रपदप्रमाणमाह । अष्टाशीतिलक्षाणां ( ८८००००० ) पदसंख्या सूत्रं भवति । अथ पूर्वगतपदप्रमाणमाह । नवकाङ्कपञ्चपञ्चशून्यपञ्च पञ्चाङ्क प्रमाणा ( ९५५० ५५ ) पूर्वगतपदसंख्या भवति । प्रथमानुयोग - पदप्रमाणमाह । पञ्चसहस्राणि ( ५००० ) पदानां प्रमाणं प्रथमानुयोगे भवति । अथ पञ्चप्रकारचूलिकापदसंख्यामाह । तत्र प्रथमचूलिकाप्रतिमादिकायां पदसंख्यामाह । द्विकोटी अष्टानवतिलक्षाणां द्विनवतिसहस्राणि पदानां संख्या भवति । द्वितीया मातृगता चूलिका द्वे कोटी द्विनवतिसहस्राणि पदानां संख्या भवति । तृतीया भूगता चूलिका । तस्याः पदप्रमाणं द्वे कोटी अष्टानवतिर्लक्षाणां द्विनवतिसहस्राणि पदसंख्या भवति । चतुर्थी विद्यानुभावरूपगता । तस्याः पदसंख्या द्वे कोटी अष्टानवतिर्लक्षाणां द्विनवतिसहस्राणि पदप्रमाणम् । अथ गगनगता पञ्चमी । तस्याः प्रमाणं द्वे कोटी अष्टानवतिक्षा द्विनवतिसहस्राणि पदानां संख्या भवति । अथ चूलिकानां पदसंख्योच्यते । दश कोटयः एकोनपञ्चाशल्लक्षाः षट्चत्वारिंशत्सहस्राणि पदानां संख्या वर्तते । तत्र दृष्टिवादस्य परिकर्मसूत्रपूर्व प्रथमानुयोगचूलिकाभेदैः पञ्चप्रकारत्वम् । तत्र पूर्वगतं चतुर्दशविधम् । उत्पादपूर्वम्, अग्रायणीयम्, वीर्यप्रवादम् अस्तिनास्तिप्रवादम्, ज्ञानप्रवादम्, सत्यप्रवादम् आत्मप्रवादम्, कर्मप्रवादम्, प्रत्याख्याननामधेयम्, विद्यानुवादम्, कल्याणनामधेयम्, प्राणावायम्, क्रियाविशालम्, लोकबिन्दुसारम् । तत्र तावत् उत्पादपूर्वपदप्रमाणमुच्यते । एका कोटि : पदानां संख्या भवति । द्वितीयाग्रायणीयपूर्वे षण्णवतिर्लक्षाणां पदप्रमाणं भवति । तृतीये वीर्यंप्रवादे सप्ततिर्लक्षाणां
२१
१६१
For Private & Personal Use Only
www.jainelibrary.org