________________
१२२
ज्ञानार्णवः
353 ) एते पण्डितमानिनः शमयमस्वाध्यायचिन्ताच्युता रागादिग्रहवञ्चिता यतिगुणप्रध्वंसकृष्णाननाः । व्याकृष्टा विषयैर्मदैः प्रमुदिताः शङ्काभिरङ्गीकृताः न ध्यानं न विवेचनं न च तपः कर्तुं वराकाः क्षमाः ||६०
इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य श्री शुभचन्द्रविरचिते गुणदोषविचारः ||४||
[ ४.६० -
(353) एते पण्डितमानिनः - के एते । वराकाः ध्यानं कर्त ु न क्षमाः समर्थाः । च पुनः । विवेचनं तु न क्षमाः । च पुनः । तपः कर्तु न क्षमाः न समर्थाः । ते पण्डितमानिनः । पुनः कीदृशाः । शमयमस्वाध्यायचिन्ताच्युताः । पुनः कीदृशाः । रागादिग्रहह्वचिताः । पुनः कीदृशाः । यतिगुणप्रध्वंस-कृष्णाननाः कालमुखाः । पुनः कीदृशाः । मदैर्मदजनकैः प्रमुदिताः । व्याकृष्टाः व्याप्ताः। शङ्काभिरङ्गीकृताः । इति सूत्रार्थः ॥६०॥
इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डित- नयविलासेन साहपासातत्पुत्र-साहटोडर-तत्कुलकमल दिवाकर साहरिषिदासस्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितं गुणदोषव्याख्यानं कृतम् । चतुर्थः सर्गः ॥४॥
बभूव पूर्वं किल पासराजः सट्टोडरः शुद्ध गुणप्रधानः । तदीयपुत्रो रिषिदासनामा पायात्सदा तं जिनधर्ममार्गः ॥ इति आशीर्वादः । अथ ध्यातारमाह ।
Jain Education International
ये जो अपनेको पण्डित मानते हैं - यथार्थ में पण्डित न होकर भी उसका कोरा अभिमान करते हैं; शान्ति, संयम एवं स्वाध्यायकी चिन्तासे रहित हैं - जिनको इनकी परवाह नहीं है; रागद्वेषादिरूप पिशाचसे ठगे गये हैं, मुनिके योग्य मूल व उत्तर गुणों को नष्ट करके अपने मुखको काला करनेवाले - साधुके योग्य आचरणसे रहित होनेके कारण निन्दा के पात्र होते हैं, विषयोंसे खींचे गये हैं - उनमें अनुराग रखते हैं, आठ मदोंसे आनन्दित रहते हैं, तथा शंकाओं से स्वीकृत किये गये हैं- - उन शंकादि दोषोंसे दूषित रहते हैं; वे बेचारे न ध्यान कर सकते हैं, न आत्म-परका विचार कर सकते हैं, और न तप भी कर सकते हैं ||३०||
इस प्रकार आचार्य शुभचन्द्रविरचित ज्ञानार्णवमें योग प्रदीपाधिकार में गुण-दोष विचाररूप यह प्रकरण समाप्त हुआ ||४||
१. SVC J X Y R शमदम । २. MVCXY R चिन्तायुताः । ३ L विचारप्रकरणं F प्रकरणं चतुर्थः सर्गः, B गुणदोषव्याख्यानं कृतं । चतुर्थी सर्ग ।
For Private & Personal Use Only
www.jainelibrary.org