________________
११७
४. ध्यानगुणदोषाः 337 ) नर्मकौतुककौटिल्यपापसूत्रोपदेशकाः । ___अज्ञानश्वित्रंशीर्णाङ्गा मोहनिद्रास्तचेतनाः ॥४६ 338 ) अनुयुक्तास्तपः कतु विषयग्रासलालसाः ।
___ ससंगाः शङ्किता भीता मन्ये ऽमी दैववञ्चिताः ॥४७ 339 ) एते तृणीकृतस्वार्था मुक्तिश्रीसंगनिःस्पृहाः ।
प्रभवन्ति न सद्ध्यानमन्वेषितुमपि क्षणम् ॥४८ 3 40 ) पापाभिचारकर्माणि सातद्धिरसलम्पटैः।
यैः क्रियन्ते ऽधमैर्मोहाद्धा हतं तैः स्वजीवितम् ॥४९ तथा च
337-38 ) नर्मकौतुक-अहम् एवं मन्ये । अमी मोहनिद्रास्तचेतनाः पुरुषाः तपः कर्तु मनुद्युक्ताः उद्यमरहिताः । पुनः कीदृशाः। नमकौतुककौटिल्यपापसूत्रोपदेशकाः हास्यकूटकौटिल्यपापशास्त्रोपदेशकाः। पुनः कीदृशाः। *अज्ञानज्वरशोर्णाङ्गाः । पुनः कीदृशाः । विषयग्रासलालसाः विषयभक्षणतत्पराः। पुनः कीदृशाः। ससङ्गाः सपरिग्रहाः। पुनः कीदृशाः। शङ्किताः भीताः दैववञ्चिताः। इति सूत्रद्वयार्थः ॥४६-४७।। अथ मुनीनां स्वरूपमाह ।
339 ) एते तृणीकृत-एते मुनयः सद्ध्यानमन्वेषितुं विलोकयितुं क्षणमपि न प्रभवन्ति । कीदृशाः । तृणीकृतस्वार्थाः । पुनः कीदृशाः । मुक्तिश्रीसङ्गनिःस्पृहाः। सुगमम् ।इति सूत्रार्थः ।।४।। मोहात् पापैः स्वजीवितं हन्यते तानाह।।
340 ) पापाभिचार-हा इति खेदे । तैः स्वजीवितं हतम् । कस्मात् । मोहात् । तैः कैः । यैः पापाभिचारकर्माणि क्रियन्ते । कीदृशैः। सातद्धिरसलम्पटैः सातादिरसलम्पटैः इति सूत्रार्थः ।।४९।। तथा च ।
जो क्रीड़ा, कौतूहल, कुटिलता और पापाचरणमें प्रवृत्त करनेवाले आगम ( कुश्रुत ) का उपदेश देते हैं; जिनका शरीर अज्ञानरूप कोढ़से गल रहा है, जिनकी चेतना (विवेक) को मोहरूप नींदने नष्ट कर डाला है, जो तपके करनेका कभी उद्यम नहीं करते हैं, जिनकी इच्छा विषयोंसे ग्रस्त है-जो विषयानुरागी, परिग्रहसे सहित हैं, तत्त्वके विषयमें सन्देहको प्राप्त हैं, तथा भयभीत हैं; उन्हें मैं ऐसा समझता हूँ कि वे दैवसे ठगे गये हैं-पापसे पीड़ित हैं। इसी कारण वे अपने स्वार्थको-आत्महितको-तृणके समान तुच्छ समझकर कभी मुक्तिरूप लक्ष्मीके सम्भोगकी इच्छा नहीं करते हैं । ऐसे मनुष्य क्षणभरके लिए उस समीचीन ध्यानके खोजनेके लिए भी समर्थ नहीं होते हैं ।।४६-४८।।
जो अधम मनुष्य मोहवश सात, रस और ऋद्धिरूप तीन गारवोंमें लम्पट होकर पापाचरणको करते हैं, खेद है कि उन्होंने अपने जीवनको नष्ट कर दिया है-उन्होंने अपने आपको भयानक कष्टमें डाल दिया है ॥४९॥
१. M N T कौटिल्याः पाप । २. All others except P अज्ञानश्वित्र सर्वा', P श्वित्र = कुष्ट । ३.] सत्संगाः । ४. N मोहादाहतं । ५. PM L BX तथा च, F तद्यथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org