________________
११८
ज्ञानार्णवः
341 ) वश्याकर्षणविद्वेषं मारणोच्चाटनं तथा । जलानलविषस्तम्भो रसकर्म रसायनम् ||५० 342 ) पुरक्षोभेन्द्रजालं च बलस्तम्भों जयाजयौ । विद्याच्छेदस्तथा वेधं ज्योतिर्ज्ञानं चिकित्सितम् ॥ ५१ 343 ) यक्षिणीमन्त्रपातालसिद्धयः कालवञ्चना । पादुकाञ्जननिस्त्रिंशभूतभोगीन्द्रसाधनम् ॥५२ 344 ) इत्यादिविक्रियाकर्मरञ्जितैर्दुष्टचेष्टितैः । आत्मानमपि न ज्ञातं नष्टं लोकद्वयच्युतैः ॥५३
६
341 ) वश्याकर्षणविद्वेषं - दुष्टचेष्टितैः दुष्कर्मकर्तृभिरात्मानमपि न ज्ञातम् । कीदृशम् । नष्टम् । कीदृशैस्तैः । लोकद्वयच्युतैः । पुनः कीदृशैः । इत्यादिविक्रियाकर्मरञ्जितैः । इतीति किम् । वश्यं मन्त्रादिना स्त्रीपुरुषयोर्वशीकरणम् आकर्षणं दूरस्थस्य मन्त्रादिना । विद्वेषं परस्परं विद्वेषः । मारणं दुष्टमन्त्रादिना । उच्चाटनं शिरसि स्मशानोत्क्षेपादि । जलानलविषाणां स्तम्भः । रसकर्म पारदादिक्रिया । रसायनं रूप्यसिद्धयादि । इति श्लोकार्थः ॥ ५०॥
242 ) पुरक्षोभेन्द्र - पुरक्षोभेन्द्रजालं च, पुरक्षोभः नगरक्षोभः, इन्द्रजालं इन्द्रजालविद्या | च पुनः । बलस्तम्भः कटकादिस्तम्भः । जयाजयौ जयपराजयौ । विद्याच्छेदः परविद्योच्छेदः । वेधः * ग्रहादिविषयः । ज्योतिर्ज्ञानं व्यवहारलग्नादिकम् । रत्नमालाभवनदीपादिचिकित्सितं भिषग्विद्यानिदान चिकित्सादिशास्त्रमिति सूत्रार्थः ॥५१॥
343 ) यक्षिणी - यक्षिणीमन्त्रपातालसिद्धयः निधिदर्शनाञ्जनादयः । कालवञ्चना वायुधारणा | पादुकां परिधायाकाशोत्क्षेपादि । अञ्जनं गुप्ताञ्जनम् । निस्त्रिंशभूतभोगीन्द्रसाधनं, खड्गसाधनं, भूतसाधनं क्षेत्रपालाद्याराधनम् । भोगीन्द्रसाधनं धरणेन्द्रपद्मावत्याराधनम् । इति सूत्रचतुष्टार्थः ॥ ५ ॥ एतासां दुष्टक्रियाणां फलमाह ।
344 ) इत्यादिविक्रिया - एतासु दुष्टक्रियासु अनुरक्ता जनाः इहपरलोकसुखात् च्युताः भवन्ति । आत्मानं आत्मस्वरूपं ज्ञातुमपि ते न प्रभवन्तीत्यर्थः ॥५३॥ ] अथ यतित्वे जीवनोपायाभावमाह ।
Jain Education International
[ ४.५०
इसके अतिरिक्त——जो लोग वशीकरण, आकर्षण, विद्वेष, मारण, उच्चाटन - मन्त्र के प्रभावसे किसी वस्तुको अपने स्थानसे उड़ा देना, जल, अग्नि एवं विषको रोकना; रसकर्मसुवर्णादि बनाने की क्रिया, रसायन - आयुर्वेद में निर्दिष्ट कुटीप्रावेशिक और वातातपिकरूप रसायनोंका प्रयोग, नगरको क्षोभित करनेवाला इन्द्रजाल ( मायाकर्म ), सेनाको कीलित करना, जीत-हार, विद्याको नष्ट करना, विद्ध करना, ज्योतिषका जानना, चिकित्साका परिज्ञान; यक्षिणी, मन्त्रव पातालकी सिद्धि; मृत्युको रोकना, पादुकासाधन-खड़ाउओं को पहनकर
१. BJ बलस्तम्भी । २. BJ तया बन्धज्योतिः । ३. M N यक्षिणीबिलपाताल । ४. M N आत्मा शुद्धोऽपि न ज्ञातो नष्टो । ५. L STFVCYR न ज्ञातुं । ६. Pद्वयाच्युतैः ।
For Private & Personal Use Only
www.jainelibrary.org