________________
ज्ञानार्णवः
[३.७
253 ) दृग्वीर्यादिगुणोपेतं जन्मक्लेशैक विच्युतम् ।
चिदानन्दमयं साक्षान्मोक्षमात्यन्तिकं विदुः ॥७ 254 ) अत्यक्षं विषयातीतं निरौपम्यं स्वभावजम् ।
अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥८ 255 ) निर्मलो निष्कलः शान्तो निष्क्रियो ऽत्यन्तनिर्वृतः ।
कृतार्थः साधुबोधात्मा यत्रात्मा तत्पदं शिवम् ।।९ 256 ) तस्यानन्तप्रभावस्य कृते त्यक्ताखिलभ्रमाः ।
तपश्चरन्त्यमी धीरा बन्धविध्वंसकारणम् ॥१०
253 ) दृग्वीर्यादि-आत्यन्तिकं मोक्षं साक्षात् चिदानन्दमयं विदुः। कथंभूतम् । दग्वीर्यादिगुणोपेतम् । पुनः कीदृशम् । जन्मक्लेशः *परिच्युतम् इति सूत्रार्थः ।।७।। पुनस्तत्स्वरूपमाह।
254 ) अत्यक्षं विषयातीतं-स मोक्षः परिपठ्यते । यत्र एतादृशं सुखं वर्तते । कीदृशं सुखम् । अत्यक्षम् अतीन्द्रियम् । पुनः कीदृशम् । विषयातीतम् । निरौपम्यम् उपमारहितम् । स्वस्वभावजम् । पुनः कीदृशम् । अविच्छिन्नं निरन्तरमिति सूत्रार्थः ।।८॥ अथ शिवपदमाह ।
255 ) निर्मलो निष्कलः-यत्रात्मा कृतार्थो वर्तते । कीदृशः आत्मा। निर्मलः, निष्कलः, शान्तः । *निष्पन्नात्यन्तनिर्वृतः । निष्पन्नम् अत्यन्तं निर्वृतं सुखं यत्र सः। पुनः कीदृशः । साधुवात्मा । साधप्रधानो बाधःज्ञान तदात्मा तत्पदं शिवम् उच्यते ।।९।। तपःस्वरूपम् आह ।।
256) तस्यानन्तप्रभावस्य-अमी धीराः तपश्चरन्ति । किमर्थम् । तस्य मोक्षस्य कृते कारणाय । कीदृशस्य तस्य। अनन्तप्रभावस्य । कीदृशाः । त्यक्ताखिलभ्रमाः। कीदृशं तपः । बन्धविध्वंसकारणं कर्मबन्धनाशहेतुम् । ॥१०॥ अथ सम्यग्ज्ञानादिकस्य मोक्षकारणत्वमाह ।
__ वह मोक्ष साक्षात् दर्शन व अनन्तवीर्यादि गुणोंसे सहित, जन्मके क्लेशसे सर्वथा रहित तथा चित्स्वरूप आनन्दसे परिपूर्ण है। यह जीवकी स्वाभाविकी अन्तिम अवस्था है, ऐसा जानना चाहिए । पूर्व श्लोकमें जो उस मोक्षका स्वरूप निर्दिष्ट किया है वह अभावस्वरूपसे तथा इस श्लोकमें उसीका स्वरूप भावस्वरूपसे निर्दिष्ट किया है ॥७॥
जहाँपर अतीन्द्रिय, विषयोंकी अपेक्षासे रहित, अनुपम, स्वभावसे उत्पन्न हुआ (परनिरपेक्ष ) और सब प्रकारकी बाधाओंसे रहित सुख उपलब्ध होता है उसे मोक्ष कहा जाता
जिस पदको प्राप्त होकर आत्मा कर्ममलसे रहित, शरीरसे रहित, शान्त, परिस्पन्दस्वरूप क्रियासे रहित, अतिशय सुखी, कृतकृत्य और उत्कृष्ट ज्ञानस्वरूप हो जाता है उस पदका नाम मोक्ष है ॥२॥
उस अनन्त प्रभाववाले मोक्षको प्राप्त करनेके लिए ये धीर पुरुष समस्त भ्रान्तिको छोड़कर बन्धविध्वंसके कारणभूत तपका आचरण करते हैं ॥१०॥ १. All others except P जन्मक्लेशैः परिच्युतम् । २. L परिकथ्यते । ३. All others except P निष्पन्नो ऽत्यन्त । ४. S FCV R त्यक्त्वाखिल,x त्यक्त्वाखिलभ्रमान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org