SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ २. द्वादश भावनाः 185 ) रागद्वेषौ समत्वेन निर्ममत्वेन वानिशम् । मिथ्यात्वं दृष्टियोगेन निराकुर्वन्ति योगिनः ॥१३४ 186 ) अविद्याप्रसरोद्भूतं तमस्तत्त्वावरोधकम् । ज्ञानसूर्यांशुभिर्बाढं स्फेटयन्त्यात्मदर्शिनः ॥१३५ 187 ) असंयमगरोद्गारं सत्संयमसुधाम्बुभिः । निराकरोति निःशकं संयमी संवरोद्यतः ॥१३६ 188 ) द्वारपालीव यस्योच्चैर्विचारचतुरा मतिः । हृदि स्फुरति तस्याघसूतिः स्वप्ने ऽपि दुर्घटा ॥१३७ शक्तौ सत्यां सहनं क्रोधस्य । तु पुनः । मानस्य मार्दवम् । पुनः मायाया आर्जवम् । लोभस्य संगन्यासः संत्यागः । इति सूत्रार्थः ॥१३३॥ अथ योगिनां मिथ्यात्वाभावमाह । ___185 ) रागद्वेषौ समत्वेन-योगिनो मिथ्यात्वं निराकुर्वन्ति दूरीकुर्वन्ति । रागद्वेषौ समत्वेन समतया निराकुर्वन्ति । वा अथवा । अनिशं निरन्तरं निर्ममत्वेन ममत्वरहितेन योगिनः इति सर्वत्र योज्यम् ॥१३४।। अथ योगिनां तमोनिराकरणमाह । 186 ) अविद्या-आत्मदर्शिनः तमः अज्ञानं स्फोटयन्ति । कैः। बाढं ज्ञानसूर्यांशुभिः । कथंभूतं तमः । अविद्याप्रसरोद्भूतम् अज्ञानसमूहोत्थम् । पुनः कथंभूतम् । तत्त्वावरोधकं तत्त्वप्रतिरोधकमिति भावः ॥१३५।। अथ संवरलक्षणमाह । ____187 ) असंयमगरोद्गारं-संयमी असंयमगरोद्गारं असंयमविषोद्गारं निराकरोति । कैः। *सत्संयमशुद्धाम्बुभिः सत्संयमनिर्मलजलैः । कथंभूतः। निःशङ्का । पुनः कीदृशः । संवरोद्यतः इति सूत्रार्थः ॥१३६।। अथ विचारवतो जन्माभावमाह । 188 ) द्वारपालीव-यस्य उच्चैर्यथा स्यात् हृदि स्फुरति मतिः। कथंभूता मतिः । माया और लोभके शत्रु हैं-उनके रोधक हैं ॥१३३॥ योगी जन निरन्तर राग और द्वेषको समताभाव व निर्ममत्व (ममताका परित्याग) से तथा मिथ्यात्वको सम्यग्दर्शनके योगसे नष्ट किया करते हैं ॥१३४।। आत्मस्वरूपका अवलोकन करनेवाले योगी अज्ञानताके विस्तारसे उत्पन्न होकर वस्तुस्वरूपको आच्छादित करनेवाले अन्धकारको-मिथ्याज्ञानको-सम्यग्ज्ञानरूप सूर्यकी किरणोंके द्वारा अतिशय नष्ट किया करते हैं ॥१३५।।। संवरमें उद्यत साधु असंयमरूप विषके विस्तारका समीचीन संयमरूप अमृतजलके द्वारा निर्भयतापूर्वक निराकरण करते हैं ॥१३६॥ हिताहितके विचारमें अतिशय दक्ष बुद्धि जिसके अन्तःकरणके भीतर द्वार-रक्षिकाके समान प्रकाशमान है उसके पापकी उत्पत्ति स्वप्नमें भी सम्भव नहीं है। अभिप्राय यह है १. B N स्फोटयन्त्यात्म । २. J शुद्धाम्बुधिः, T सुधाम्बुधिः । ३. M N T J निःशङ्कः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy