SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ४२ ज्ञानार्णवः [२.६२ - येषां ते ऽपि प्रवीराः कतिपयदिवसः कालराजेन सर्वे नीता वार्तावशेषं तदपि हतधियां जीविते ऽप्युद्धताशा ॥६२ 112 ) रुद्राशागजदेवदैत्यखचरग्राहग्रहव्यन्तरा दिक्पालाः प्रतिशत्रवो हरिबलेव्यालेन्द्रचक्रेश्वराः । ये चान्ये मरुदयमादिबलिनः संभूय सर्वे स्वयं । नारब्धं यमकिंकरैः क्षणमपि त्रातुं क्षमा देहिनम् ॥६३ भरव्याप्तपृथ्वीवशेन इदं जगत् स्खलितं चकितम् । कथंभूतं जगत् । भ्रूभङ्गारम्भभीतं भ्रूकटाक्षभीतम् । पुनः कथंभूतं जगत् । ब्रह्मलोकावसानं पञ्चमस्वर्गपर्यन्तम् । शैलाः पर्वताः सद्यः शीघ्र त्रुटयन्ति पतन्तीत्यर्थः। तेनैव चरणगुरुभराक्रान्तधात्रीवशेन । एतादशसामोपेता यदि मताः। अपि इत्याश्चर्ये । तत्तस्मात कारणाद हतधियां गतबद्धीनां जीविते ऽपि आशा उद्धता बलवत्तरा इत्यर्थः ॥६२॥ अथ सर्वेषां देवानां मृत्युवश्यतामाह । शार्दूलविक्रीडितम् । ___112 ) रुद्राशागजदेव-यदा यमकिंकररारब्धं मरणं तदा देहिनः* प्राणिनः त्रातुं क्षणमपि एते सर्वे स्वयं संभूय न क्षमाः समर्थाः भवेयुः । के ते । रुद्रो महादेवः, आशागजा दिग्गजाः, देवा भुवनपत्यादयः, दैत्याः प्रसिद्धाः, खचराः विद्याधराः, ग्राहाः अभिमानिनः, ग्रहाः सूर्यादयः, व्यन्तराः देवविशेषाः, तेषां समाहारः। ते त्रातुं क्षणमपि न समर्था इत्यध्याहारः सर्वत्र योज्यः। दिक्पालाः तथैव न समर्थाः। प्रतिशत्रवः प्रतिवासदेवाः, हरिः कृष्णः बलः बलभद्रः व्यालेन्द्रोधरणीन्द्रः, चन्द्रः* प्रसिद्ध एव, ईश्वरः तेषां समाहारः । ते ऽपि न क्षणमपि त्रातुं समर्थाः। च पुनः। ये ऽन्ये मरुत् देवविशेषाः, अर्यमा सूर्यः, स आदिः येषां ते बलिनो बलवन्त इत्यर्थः ॥६३॥ अथ जीवं मृत्युमुखप्राप्तं न कोऽपि रक्षतीति दर्शयति । शार्दूलविक्रीडितम् । पहाड़ भी शीघ्र टूट जाते हैं उन सब अतिशय शूर-वीर सुभटोंकी भी उस मृत्युरूप राजाके प्रभावसे कुछ ही दिनों में केवल वार्ता मात्र शेष रह जाती है--वे भी शीघ्र उस मृत्युके ग्रास बन जाते हैं। फिर भी दुर्बुद्धि प्राणियों की इस जीवनके विषयमें उत्कट इच्छा बनी ही रहती है ॥३२॥ महादेव, दिग्गज, देव, दैत्य, विद्याधर, ग्राह (हिंसक जलजन्तु ), ग्रह (शनि आदि) व्यन्तर, दिक्पाल, प्रतिनारायण, नारायण, बलदेव, धरणेन्द्र और चक्रवर्ती तथा अन्य भी वायु एवं सूर्य आदि बलवान् ; ये सब स्वयं मिल करके भी यमके दूतोंके द्वारा ग्रहण करनेके लिए प्रारम्भ किये गये (मरणोन्मुख ) प्राणीकी क्षणभर भी रक्षा करनेके लिए समर्थ नहीं हैं ॥६३॥ २. MJY चन्द्रेश्वराः । ३. T X देहिनां, १. LS T F VCJXY हरिबला व्यालेन्द्र । B देहिनः। Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy