________________
रायचन्द्रजैनशास्त्रमालायाम
[ दशमोऽध्यायः
नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ऊर्ध्वं तस्याःक्षितेः सिद्धा, लोकान्ते समवस्थिताः॥२०॥ तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्थाहेत्वभावाच्च निष्क्रियाः॥ २१॥ ततोप्यूर्वं गतिस्तेषां, कस्मान्नास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परः ॥ २२ ॥ संसारविषयातीतं, मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः ॥ २३ ॥ स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः। कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु ॥ २४ ॥ लोके चतुर्विहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते। दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ सुस्वप्नसुप्तवत्केचिदिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात्सुखानुशयतस्तथा ॥२८॥ श्रमक्लममदव्याधिमदनेभ्यश्च सम्भवात् । मोहोत्पत्तेविपाकाच्च, दर्शनध्नस्य कर्मणः ॥ २९॥ लोके तत्सदृशोहर्थः कृत्स्नेऽप्यन्यो न विद्यते। उपगीयेत तयेन, तस्मानिरुपमं सुखम् ॥ ३०॥ लिङ्गप्रसिद्धःप्रामाण्यादनुमानापमानयोः । अत्यन्तं चाप्रसिद्धं, तद्यत्तेनानुपमं स्मृतम् ॥ ३१ ॥ प्रत्यक्षं तद्भगवतामहतां तैश्च भाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञैर्नच्छद्मस्थपरीक्षया ॥ ३२ ॥ (इति)
अर्थ-ऊपर तत्त्वज्ञानका उपाय बताया जा चुका है। उस प्रकारसे उक्त तत्त्वोंका परिज्ञान होजानेपर समस्त विषयोंमें वैराग्य उत्पन्न हुआ करता है । इष्ट विषयोंसे राग भाव
और अनिष्ट विषयोंसे द्वेषरूप परिणाम नष्ट होनाता है। अच्छी तरह विरक्त हए मनुष्यके कर्मोका आस्रव रुक जाता है। आस्रव और उसके कारणोंसे रहित होनेपर नवीन कर्म-सन्तति छिन्न होजाती है । नवीन कर्मोंके आनेका मार्ग रुक जानेपर-संवरकी सिद्धि होनेपर निर्नराका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org