________________
सभाष्यतस्त्वार्थाधिगमसूत्रम् ।
गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ ततः क्षीणचतुष्कर्मा, प्राप्तोऽथाख्यात संयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ॥ ५ ॥ शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥ ६ ॥ कृत्स्नकर्मक्षयादूर्ध्व, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निर्निरुपादानसन्ततिः ॥ ७ ॥ दधे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः ॥ ८ ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्व प्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥ ९ ॥ कुलालचक्रे दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह, तथा सिद्धगतिः स्मृता ॥ १० ॥ मृल्लेप सङ्गनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥ ११ ॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्सिद्धस्यापि तथेष्यते ॥ १२ ॥ ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः, पुनला इति चोदितम् ॥ १३ ॥ यथास्तिर्यगूर्ध्व च, लोष्ठवाय्वग्निवतियः । स्वभावतः प्रवर्त्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥ १४ ॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मणः प्रतिघाताच्च, प्रयोगाच्च तदिष्यते ॥ १५ ॥ अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥ १६॥ द्रव्यस्य कर्मणो, यद्वदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः ॥ १७ ॥ उत्पत्तिश्च विनाशश्च, प्रकाशतमसोरिह । युगपद्भवतो यद्वत्, तथा निर्वाणकर्मणोः ॥ १८ ॥
उपसंहार । ]
तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥
५९
Jain Education International
For Private & Personal Use Only
૪૬ ૧
www.jainelibrary.org