SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा [४१ व्याख्या। हि निश्चितमसतोऽविद्यमानस्यार्थस्य नो बोधः । च पुनर्जन्माप्यूत्पत्तिरपि न भवति । सत एवं ज्ञानं सत एवोत्पत्तिरित्याशयः । एवमपि निश्चयेन कार्यकारणयोरभेदोऽस्ति । तदृष्टान्तेन द्रव्यगुणपर्यायादीनामप्यभेदं श्रयाङ्गीकुरु ॥१४॥ व्याख्यार्थः-इस पूर्वोक्त कथनसे निश्चय कर अविद्यमान पदार्थका ज्ञान नहीं होता और अविद्यमान पदार्थकी उत्पत्ति भी नहीं होती, अर्थात् विद्यमान पदार्थका ही ज्ञान और उसकी ही उत्पत्ति होती है, यह आशय है। इस प्रकार भी निश्चयसे कार्य और कारणका अभेद है । उसी दृष्टान्तसे तुम द्रव्य गुण तथा पर्याय आदिके भी अभेदको स्वीकार करो। नैयायिको भेदनयं प्रकाशते । साङ्खयोऽप्यभेदं प्रकटीकरोति वै ॥ विस्तारयन जैनवरो द्वयं स्वयं । प्राप्नोति सर्वत्र जयं सुनिर्भयम् ॥१५॥ - भावार्थः-नैयायिक द्रव्य आदिके सर्वथा भेदको प्रकाशित करता है, और सांख्यवादी निश्चयसे अभेदको प्रकट करता है और जैनियों में श्रेष्ठ पुरुष अथवा श्रेष्ठ जैनमत तो अपेक्षासे भेद तथा अभेदको स्वयं निर्भय होकर विस्तारता हुआ सब बादियों में जयको प्राप्त होता है ॥१५॥ व्याख्या । नैयायिको द्रव्यादीनां भेदमङ्गी कुरुते । यत उत्पन्न द्रव्यं क्षणमगुणं तिष्ठतीति क्षणेन गुणानां पृथगुत्सादात् । द्रव्यं हि तावनिर्गुणमुत्पद्यते, पश्चात्तत्समवेता गुणा उत्पद्यते, समकानोत्पती तु गुणगुणिनोः समानसामग्रीकत्वाद्ध दो न स्यात्कारणभेदस्य कार्यभेदनियतत्वादिति भेद नयं नैयायिको वक्ति । साङ्कयोऽपि द्रव्यादीनामभेदमङ्गीकरोति । यतो गुण-गुणिनोः समानकालीनं जन्म मध्ये तरविषाणवत्पौर्वापर्याभावात् । न हि स एव तस्यैव पूर्वभावी पश्चाद्भावी च भवति । अतो यदैव द्रव्यं जायते तदैव तदगतरूपादयोऽपि जायन्त इति द्रव्यादीनां सालयमतेऽभेदता । जैनस्तु द्रव्यादीनां भेदमपि द्रव्यगुणपर्यायत्वादभेदमपि। द्रव्यं तदेव गुणस्तदेव पर्यायः, यथा घट: द्रव्येण मृद्गुणेन रक्तः, पर्यायेण कम्बुग्रीवः, इत्यभेद इत्येतद्वयमप्यङ्गीकुर्वाण: सर्वत्र जयं प्राप्नोति । उक्त च ---- अन्योऽन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः। . नयानशेषानविशेषमिच्छन्न पक्षपाती समयस्तथा ते ॥१॥ तथा य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्ट केषु जयत्यधृष्यं जिनशासनं ते ॥२॥ तस्माद्भदनयपक्षस्यामिमानमभेदनयोऽपाकरोति । अथ नयद्वयस्वामिनं निदिशति । असत्कार्य दृश्यत. इति नैयायिकाभिमतम् । सदिति सांख्याभिमतम । सदसदिति जैनाभिमतं पक्षपातरहितमिति ॥१५॥ - इति श्रीभोजविनिर्मितायां द्रव्यानुयोगतर्कणायां तृतीयोऽध्यायः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy