SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा [ १४९ णामके द्वारा मानने योग्य हैं । और यदि द्वितीयआदि क्षणमें द्रव्यार्थादेशकी अपेक्षासे उत्पत्ति के विना ही उत्पत्तिका व्यवहार तुम कहते हो तब नाशके विना नाश व्यवहार भी होना योग्य है; और उसी रीतिसे क्षणके अन्तर्भावसे द्वितीयआदि क्षण में उत्पत्ति भी प्राप्त करने योग्य है; और कल्पनारहित अनुत्पन्नता भी नहीं हो सकती । यद्यपि यह कल्पनासे अनुत्पत्तिदशा में भी क्षणकी अपेक्षासे उत्पन्नता मानी है । तथापि प्रतिक्षण उत्पत्तिके विना परमार्थ में तो अनुत्पन्नता ही युक्त है ॥ १३ ॥ संमतौ संहननादि भवभावाच्च केवलम् । प्रयाति सिद्धयतो ज्ञानं मोक्षसंप्राप्तिजे क्षणे ॥१४॥ भावार्थ:-संमति ग्रन्थमें भी यही उपदेश है; कि संहनन आदिभवस्थ भावसे अष्ट कमका नाश करते हुए जीवके मोक्ष प्राप्त होने के समयमें केवलज्ञान चला जाता है; अर्थात् भवस्थ केवलपर्यायसे केवलका नाश हो जाता है ॥ १४ ॥ व्याख्या । एवं परिणामतः सर्वद्रव्याणां त्रिलक्षणयोगः समर्थित इत्यनेनैवाभिप्रायेण संमति ग्रन्थमध्येऽयं भाव उपदिष्टः, यतः संहननादिभवभावात सिद्धयतः कर्माष्टकं क्षपयतो जन्तोर्मोक्षसमये केवलज्ञानं प्रयाति भवस्थ केवल पर्यायेण केवलस्य नाशः स्यात् । अयमर्थे मानस्तस्मिन् सिद्धत्वे सिद्ध केवलज्ञानत्व उत्पद्यते सैव केवलज्ञानत्वे ध्रुवोऽस्ति भाव: । यतो मोक्षगमनसमयेऽपि ये व्ययोत्पत्ती जायेते तत्परिणतसिद्धद्रव्यानुगमतः शिवेऽपि लक्षणत्रयमाविर्भवति । तथा च तस्य भावस्य भावार्थज्ञानाय गाथामाह । "तेसं धपणाईया भवच्छ केवल विशेशपज्जाया । ते सिज्जमाणसमयेण होइ विगयंतउ होइ । १ । सिद्धत्तणेणय पुणो उप्पण्णा एस अत्थपज्जाओ । केवलभावं तु पडुच्चकेवलदाइयं सुत्ते । २ ।" एतद्भावापेक्षयैव "केवलनाणे पुवि दे पन्नत्ते भवच्छकेवलनाणेय सिद्धकेवलनाणेय" इत्यादिसूत्र उपदेशोऽस्ति । इत्थं च स्थूलव्यवहारनयेन सिद्धविषयेऽप्यागतम्, परन्तु सूक्ष्मनयेन नागतं यतः कारणात् सूक्ष्मनया ऋजुसूत्रादयः समयं समयमुत्पादव्ययशालिनः सन्ति ततस्तान, गृहीत्वा तथा द्रव्यार्थादेशस्यानुगमं च गृहीत्वा यत्सिद्धकेवलज्ञानमध्ये गैलक्षण्यं समस्ति तदेव सूक्ष्मं ज्ञेयमित्येवं विचायं पक्षान्तरं द्योतयति किं तर्हि मोक्षे त्रिलक्षणता भवति या सा सिद्धद्रव्यानुगमात्, यत्कैवल्यं पुरा भवस्थभावेस्थितं तदेव सिद्धत्वे कैवल्यमस्ति भवस्थपर्यायव्ययस्तत्सन्निधानाम्मोक्ष संज्ञोत्पत्तिरुभयत्र कर्मवियोगजन्यं केवलं ध्रुवम्, एतल्लक्षणत्रयं मोक्षेऽपि ज्ञेयमिति । भावार्थस्त्वयम् ये च संहननादयो भवस्थकेवल विशेषपर्यायास्ते च पर्यायाः सिद्धघतो भगवतस्तत्समये सिद्धयमानसमये न भवन्त्यतस्तेषां विगमे व्ययो भवति । तथा पुनः सिद्धत्वेन यो मोक्षलक्षणोऽर्थ पर्याय उत्पन्नोऽतस्तदुत्पत्तौ सत्यामुत्पत्तिर्भवति । पुनश्च केवलभावं प्रतीत्योभयत्र ध्रुवत्वमत्र्याहतम् । कथं तद्भवस्यजन्तोः घातिकर्मापगमे केवलज्ञानमुत्पन्नं तस्मिश्च सति सिद्धयतः संहननादि विगतं तदपेक्षो व्ययः, सिद्धत्वमुत्पन्नं तदपेक्षोत्पत्तिः पूर्वप्रसूत केवलपर्यायस्य ध्रुवत्वाद् ध्रौव्यम् । इत्थं लक्षणत्रयं मोक्षेऽपि समस्तीति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy