________________
द्रव्यानुयोगतर्कणा पही उत्तम जानना चाहिये इसीसे यहाँ भूत क्रियाको लाकर जो भूतवाक्यका लोप किया जाता है; वह असमंजस ही है ।। ११ ।।
अथ संग्रहनयं विवृणोति । अब संग्रहनयका विवरण करते हैं।
सङग्रहो द्विविधो ज्ञेयः सामान्याच्च विशेषतः ।
द्रव्याणि चाविरोधोनि यथा जीवाः समे समाः ॥१२॥ भावार्थ:-सामान्य तथा विशेषसे संग्रहनयके दो (२) भेद हैं; जैसे द्रव्य सब अविरुद्ध स्वभाव हैं, और सब जीव समान हैं ।। १२ ।।
व्याख्या । संगृह्णौतीति संग्रहः, अथवा संगृह्यतेऽनेन सामान्यविशेषाविति संग्रहः । स च द्विविध: द्विप्रकारः । तयोरेक: सामान्यौघात् सामान्यसंग्रहः १ द्वितीयो विशेषान्द्यक्त विशेषसंग्रहः २ इत्थं द्विभेदः । अथानयोः प्रत्येकमुदाहरणे द्रव्याणि धर्मास्तिकायादीन्यविरोधीनि परस्परविरोधरहितानीत्यर्थः । एकद्रव्य .. सद्भावे द्रव्यषटकमेव प्राप्यत इति प्रथमोदाहरणम् ॥१॥ यथा च जीवाः सर्वेऽविरोधिनो जीवा हि संसृतिविषयिणः सिद्धिविषयिणश्वानन्ता वर्तन्ते तेषां निरुक्ति:-जीवति चैतन्यादिति जीवः । अथ च जीवप्राणधारणे तत्र प्राणा द्विधा द्रव्यमावभेदात्तत्र च द्रव्यप्राणा दश, भावप्राणाश्चत्वारः । मोक्षप्राप्ती यद्यपि द्रव्यप्राणानां कर्मजन्यानां सर्वथा क्षयस्तथापि जीवनलक्षणा जीवस्य भावप्राणाः सहचारिण: कर्मासद्भावेऽपि भवन्ति सिद्धानामपि जीवस्वाद्भावप्राणा भवन्त्यतो मुक्ता: संसारिणश्न जीवाः । मुक्ताः पुनः पञ्चदशभेदाः, संसारिणो देवनारकतिर्यङमनुष्यभेदाच्चतुर्धा तत्रान्तिमभेदयोः पञ्च भेदास्तत्रापि मनुष्यस्य पञ्चाक्षलक्षण एक एव भेदः, तिरश्च एकस्मादारभ्य पञ्च यावत् । अक्षभेदादेकाक्षग्द्यक्षश्यक्षचतुरक्षपञ्चाक्षभेदात्पञ्च भवन्ति । एवं भेदतोऽपि जीवाः सर्वेऽविरोधिनः संग्रहाद्विशेषसंग्रहभेदः ॥ २ ॥ अथ च संग्रहस्वरूपमुपवर्णयन्ति । सामान्यमात्रग्राही परामर्शः संग्रह इति, सामान्यमात्रमशेषविशेषरहितम् । स तु द्रव्यत्वादिकं गृह्णातीत्येवं शीलः । समेकीमावेन विशेषराशि गृह्णातीति सग्रहः । अयमर्थः स्वजातेष्टेष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यग्रहणं स संग्रह इति । अनुभेदानादर्शयन्ति । अयमुभयविकल्पः परोऽपरश्चति । तत्र परसंग्रहमाहुः । अशेषविशेषेष्वौदासीन्यं मजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रह इति परामर्श इति । अग्रेतनेऽपि योजनीयमुदाहरति । विश्वमेकं सदविशेषादिति यथेति । अस्मिन्ननुक्त हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितिसत्ताकत्वेन कत्वमशेषार्थानां संगृह्यते ॥ १२ ॥
व्याख्यार्थः-जो संग्रह करे अथवा जिसके द्वारा सामान्य तथा विशेष संग्रह किये जावें उसको संग्रहनय कहते हैं। वह दो प्रकारका है। उनमें प्रथम तो सामान्य ओघसे सामान्यसंग्रहनामक भेद है; और द्वितीय विशेषसे व्यक्तिका संग्रह करनेसे विशेषसंग्रह भेद है। इस रीतिसे सामान्य संग्रह और विशेष संग्रह यह दो (२)भेद संग्रहनयके हुवे । अब इन दोनोंमेंसे प्रत्येकके उदाहरण यह हैं, जैसे धर्मास्तिकायआदि सब द्रव्य अवि
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org