________________
५७८ ]
[ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते
वृत्ति: - 'उत्तममिदं ' गणधर पदं जिनवरैर्लोकोत्तमै 'र्भगवद्भिः 'प्रज्ञप्तम्, उत्तमफलसञ्जनकं' मोक्षजनकमित्यर्थः 'उत्तमजनसेवितं', गणधराणामुत्तमत्वात्, 'लोक' इति गाथार्थः ॥ १३४७ ॥ धण्णाण णिवेसिज्जइ, धण्णा गच्छंति पारमेअस्स ।
गंतु इमस्स पारं पारं वच्चंति दुक्खाणं ॥ १३४८ ॥ वृत्ति:- 'धन्यानां निवेश्यते' एतद्, 'धन्या गच्छन्ति पारमेतस्य पदस्य, 'गत्वाऽस्य' विधिना 'पारं पारं व्रजन्ति दुःखानां', सिद्ध्यन्तीति गाथार्थः ।। १३४८ ॥ संपाविऊण परमे, णाणाई दुहिअतायणसमत्थे ।
भवभयभीआण दढं, ताणं जो कुणइ सो धण्णो ॥ १३४९ ॥
वृत्ति:- 'सम्प्राप्य' परमान्' प्रधानान् ज्ञानादीन्' गुणान् दुःखितत्राणसमर्थान्', किमित्याह'भवभयभीतानां' प्राणिनां ' दृढं त्राणं यः करोति स ' धन्यो' महासत्त्व इति गाथार्थः ॥ १३४९ ॥ अण्णाणवाहिगहिआ जइवि न सम्मं इहाउरा होंति ।
तहवि पुण भावविज्जा, तेसिं अवणिति तं वाहिं ।। १३५० ।।
वृत्ति:- 'अज्ञानव्याधिगृहीता: ' सन्तो 'यद्यपि न सम्यगिहातुरा भवन्ति' व्याधिदोषात्, ' तथापि पुनर्भाववैद्या:'- तात्त्विका स्तेषामपनयन्ति व्याधि' - अज्ञानलक्षणमिति गाथार्थः॥ १३५० ॥ ता तंऽसि भावविज्जो, भवदुक्खनिवीडिया तुहं एए ।
हंदि सरणं पवण्णा, मोएअव्वा पयत्तेणं ॥ १३५१ ॥
1
वृत्ति:- 'तत्त्वमसि भाववैद्यो', वर्त्त से, 'भवदुःखनिपीडिताः' सन्त' स्तवैते'साध्वादय: 'हन्दि शरणं प्रपन्नाः ' प्रव्रज्यादिप्रतिपत्त्या, 'मोचयितव्याः प्रयत्नेन' सम्यक्त्वकारणेनेति गाथार्थः ॥ १३५१ ॥
मोएइ अप्पमत्तो, परहिअकरणम्मि णिच्चमुज्जुत्तो ।
भवसोक्खापडिबद्धो, पडिबद्धो मोक्खसोक्खम्मि ।। १३५२ ॥
Jain Education International
वृत्ति:- 'मोचयति चाप्रमत्तः' सन् 'परहितकरणे नित्योद्युक्तो य इति, 'भवसौख्याप्रतिबद्धो 'नि:स्पृहः, 'प्रतिबद्धो मोक्षसौख्ये', नान्यत्रेति गाथार्थ: ।। १३५२ ॥
ता एरिसोचिअ तुमं, तहवि अ भणिओऽसि समयणीईए । णिअयावत्थासरिसं भवया णिच्चंपि कायव्वं ॥ १३५३ ॥
वृत्ति: - 'तदीदृश एव त्वं' पुण्यवान्, 'तथापि च भणितोऽसि मया' समयनीत्या' करणेन, 'निजावस्थासदृशं' कुशलमेव 'भवता नित्यमपि कर्त्तव्यं', नान्यदिति गाथार्थः ॥ १३५३ ॥
"
-
For Private & Personal Use Only
www.jainelibrary.org