________________
५७६ ]
[स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते
आह गुरु खमासमणाणं हत्थेणिमस्स साहुस्स ।।
अणुजाणि दिसाइ सीसो वंदित्तु तो भणइ ॥ १३४० ॥ वृत्तिः- 'आह गुरु'स्त्वत्रान्तरे 'क्षमाश्रमणानां हस्तेन', न स्वमनीषिकया, 'अस्य साधोः' प्रस्तुतस्य 'अनुज्ञातं दिगादि' प्रस्तुतं, 'शिष्यो वन्दित्वा'ऽत्रान्तरे 'ततो भणति', वक्ष्यमाणमिति गाथार्थः ॥ १३४० ।।
संदिसह किं भणामो, वंदित्तु पवेअहा गुरू भणइ ।
वंदित्तु पवेअयई, भणइ गुरू तत्थ विहिणा उ॥१३४१ ॥ वृत्तिः- 'सन्दिशत किं भणामि ?', अत्र प्रस्तावे 'वन्दित्वा प्रवेदयैवं गुरुर्भणति, वन्दित्वा प्रवेदयति' शिष्यो, 'भणति गुरुस्तत्र विधिना तु', वक्ष्यमाणमिति गाथार्थः ।। १३४१ ।।
वंदित्तु तओ तुब्भं, पवेइअं संदिसहत्ति साहूणं ।
पवेएमि भणइ सीसो गुरुराह पवेअय तओ उ॥१३४२ ॥ वृत्तिः- 'वन्दित्वा' भणति 'ततः', किमित्याह-'युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामि', एवं भणति शिष्यः', अत्रान्तरे 'गुरुराह-प्रवेदय, 'ततस्तु' तदनन्तरमिति गाथार्थः ॥ १३४२ ॥ किमित्याह
वंदित्तु णमोक्कारं, कटुंतो से गुरुं पयक्खिणइ ।
सोऽवि अ देवाईणं, वासे दाऊण तो पच्छा ॥ १३४३ ॥ वृत्तिः- 'वन्दित्वा नमस्कारमाकर्षन् ‘सः' शिष्यः ‘गुरुं प्रदक्षिणीकरोति, सोऽपि च' गुरु र्देवादीनां वासान् दत्त्वा 'ततः' तदनन्तरं 'पश्चादिति गाथार्थः ॥ १३४३ ॥ किमित्याह
सीसम्मि पक्खिवंतो भण्णइ तं गुरुगुणेहिं वड्वाहि ।
एवं तु तिण्णि वारा, उवविसइ तओ गुरू पच्छा ॥१३४४ ॥ वृत्तिः- “शिरसि प्रक्षिपन्' वासान् ‘भणति 'तं' साधु-'गुरुगुणैर्वर्द्धस्वे'ति “एवमेव त्रीन् वारान्' एतद्, 'उपविशति 'ततः' तदनन्तरं 'गुरुः, पश्चादि ति गाथार्थः ॥ १३४४ ॥
सेसं जह सामइए, दिसाइअणुजाणणाणिमित्तं तु ।
णवरं इह उस्सग्गो, उवविसइ तओ गुरुसमीवे ॥१३४५ ॥ वृत्तिः- 'शेष' प्रादक्षिण्यादि 'यथा सामायिके' तथैव द्रष्टव्यं, 'दिगाद्यनुज्ञानिमित्तं तु नवरमिह कायोत्सर्गो' नियमित एव, उपविशति ततो गुरुसमीपे' स साधुरिति गाथार्थः ।। १३४५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org