________________
पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ]
एतच्चैवं द्रष्टव्यमित्याह
दुगसंजोगे चउरो, तिगऽट्ठ सेसेसु दुगुणदुगुणा उ । भंगाणं परिसंखा, दसहिं सहस्सं चउव्वीसं ॥ ४०२ ॥
वृत्ति:- 'द्विकसंयोगे चत्वारो' भङ्गा भवन्ति, द्वाभ्यां चतुर्भङ्गिकानिष्पत्तेः, ते चैवंअणावातम-संलोअं ४, 'त्रिष्वष्टौ' भवन्ति, त्रिभ्योऽष्टभङ्गिकानिष्पत्तेः, 'शेषेषु' चतुष्प्रभृतिषु 'द्विगुणद्विगुणे' ति द्विगुणद्विगुणा वृद्धिर्भवति, चतुर्भ्यः षोडशभङ्गिकानिष्पत्तेः इत्यादि, एवमेकैकवृद्ध्या 'भङ्गानां परिसङ्ख्या दशभिः ' वस्तुभि 'र्भङ्गसहस्त्रं चतुर्विंशत्युत्तर 'मिति गाथार्थः ॥ ४०२ ॥
તે ભાંગા આ રીતે થાય છે—
દ્વિક સંયોગી ૪, ત્રિક સંયોગી ૮, ચતુઃસંયોગી ૧૬, એમ ઉત્તરોત્તર બમણા કરતાં દશ સંયોગી ૧૦૨૪ ભાંગા થાય. [૪૦૨]
भङ्गपरिसङ्ख्यापरिज्ञानोपायान्तरमाह
Jain Education International
[ १८३
अहवा - उभयमुहं रासिदुगं, हिद्विल्लाणंतरेण भय पढमं । लद्धऽहरासिविहत्तं, तस्सुवरिगुणं तु संजोगा ॥ ४०३ ॥
वृत्ति:- 'उभयमुख' मिति स्थापनया दर्शयिष्यामः, 'राशिद्वयम्' एकादिस्थापनासम्पातद्वयं, तत्र 'चाधस्तनानन्तरेण भजेत् प्रथमम्' - उपरितनं, ' लब्धाधोराशिविभक्तेन' अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन 'तस्योपरि' यत् तद् 'गुणितं तत्संयोगा' इति गाथाक्षरार्थः । भावार्थस्तु दर्श्यते, तत्रेयं स्थापना
१ १० ४५ १२० २१० २५२ २१० १२० ४५ १०
१
२ ३ ४ ५ ६ ७ ८ ९ १०
१० ९ ८
७ ६ ५ ४
३ २ १
इह चाधस्त्यपर्यन्ते एककः, तस्यानन्तरो द्विक:, तेनोपरितनो दशको भज्यते, तत्र च पञ्च लभ्यन्ते, यतो द्विधा विभक्ताः (दश) पञ्चैव भवन्ति, तेन च पञ्चकेन तस्योपरि यो नवकः स गुण्यते स च पञ्चकेन गुणितः पञ्चचत्वारिंशद् भवन्ति, पुनश्चाधस्त्यानन्तरस्त्रिकः तेन पञ्चचत्वारिंशद्विभज्यन्ते, तत्र पञ्चदश लभ्यन्ते, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुण्यते, स च तेन गुणिते विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कः, तेन विंशत्युत्तरं शतं विभज्यते, तत्र त्रिशल्लभ्यते, यतो विंशत्युत्तरं शतं चतुर्भिर्विभक्तं त्रिंशदेव भवति, तैस्त्रिंशद्भिस्तेभ्य उपरि यः सप्तकः स गुण्यते, स च तैर्गुणित: द्वे शते दशोत्तरे भवतः, पुनश्चाधस्त्यानन्तरः पञ्चकस्तेन दशोत्तरे द्वे शते विभज्येते, तत्र च
For Private & Personal Use Only
www.jainelibrary.org