________________
१४८
जुगाइ जिणिद- चरियं
हो । सो वि छोडिऊण वाइउमारद्धो – “स्वस्ति तक्षशिलायां पवनपोतपोताधिपतिं जलधिजलावगूढ - द्वीपकद्वीपात् देवसेनप्रमुखपरिजनः सादरं सबहुमानं प्रणिपत्य विज्ञापयति- 'तद्यथा सुवर्णद्वीपात् कनकेष्टका भृतौ मुक्तावस्माभिः पोती जलधिमध्यागतानां च तस्करैः सह समागम: समजनि । तत्र चत्वारि दिनानि महान् समरसंघट्टः समभवत् । ततः कृतांतातिथीभूतेषु कियत्स्वपि वठवर्गेषु स्वल्पीभूतेषु शस्त्रसंघातेषु प्रचलतां गतेषु पानीयेषु प्रचुरत्वाच्चोरचेटिकानां गृहीतौ पोतौ परिजनोऽपि कियानेव जीवन्नास्त इति" । एवं सुणिय मुक्को उयरेगभागो सामवाण । बीयम्मि दिने समागओ Arrearer समपिओ तेण वि लेहो । वाइओ पवणपोएण -- "स्वस्ति तक्षशिलायां पवनपोतपोताधिपं सार्वरद्वीपात् नागसेनप्रमुखः परिजनः सांजसं प्रणम्य कार्यमावेदयति । तद्यथा - रत्नद्वीपात् पंचवर्णरत्नभृतौ मुक्तावस्माभिः पोतौ अनुकूलपवनप्रेरितौ च कतिपयैरेवाहोभिः समुद्रमध्यमागतौ । अत्रांतरे अतर्कितमेव जातं मेघदुर्दिनं । तमंधकारितं नभमूलं गर्जितुमारब्धो । धाराधरः उद्वेजितलोकलोचना: जंपाभिः उत्थिता विद्युत् वातुमारब्धः प्रतिकूलप्रचंड प्रभञ्जनः । विषन्नौ निर्यामकौ । स्मरणशेषतां गतास्सितपटाः । अकृतपुण्यजनमनोरथा इव अपांतराल एव त्रुटिता नगराः । क्वचित् महावर्त्तापतितौ नृत्यत इव क्वचित् प्रबलपवनोत्क्षेपोत्पतिष्णुध्वजपटैर्गगनतल मुद्गमिष्यत इव क्वचित् पीतमद्यपुमांसाविव घूर्णयत: क्वचिन्महामारुतोस्तंभितांभस्तरलतरतरंगमालाभिरुभयपार्श्वयोर्निपतंतीभिश्चामरोत्क्षेपमनुभवत इव क्वचित् पवनोन्नामितोन्नतां गतया समासृत्य जनरक्षणार्थमुदन्वतोजोत्कारान् कुरुत इव क्वचित् शरणागतजनरक्षणाक्षमतया नयनयुगलगलदंबुधाराराभिरश्रूणि मुंचत इव क्वचित् प्रभज्यमानकठिनकाष्ठकटत्कारारवैनिमज्जमानमात्मानमालोक्य समारूढ जनदु:खदुखिता वा दत इव क्वचिद्दिशि दिशि विक्षिप्यमाणत पंचवर्णरत्नराजीभिर्जनपरित्राणार्थं जलधिभूभुजे उपदा: प्रदत्त इव क्वचिन्मंदगती क्वचिदुद्धतगती, अनिवारित प्रसरावितस्ततः पर्यहंतौ सार्वरद्वीपासन्नगिरिशिखरमासाद्य झटितिशतसीकरौ जातौ वयमप्युद्धरितशेषपरिजनसहिताः सार्वरद्वीपे तिष्ठाम इति ।" एयं सुणिय बीओ विभागो पवणपोयपोस मुक्को सामवाण । किंपि समंजसाणि जंपिउमारद्धो । अन्नम्मि दिने निसुओ रुइयसो पणपोएण संकियहियएण पुच्छ्यिा तेण घरदासी — “किं कारणं रोइज्जइ ?" तीए भणियं -- "वीय पुत्तगो ते पंचत्तं पत्तो । एयं सुणिय मुच्छि पaणपोओ । पडिओ धरणियले । कह कह वि लद्धचेयणो एवं विलविउमारद्धो ।"
भो धणय ! कहसु सच्चं सयलं महिमंडलं भमंतेण । किं पवणपोयसरिसो दिट्ठो निब्भग्गिओ भुवणे । अवि कह उ कोई जणपयडं अंगुली कया उब्भ । जइ पवणपोयसरिमो अन्नो निभग्गिओ अस्थि ।। १३१३ ।। एगतो हिमवंतो अन्नत्तो पवणपोयवसणभरी । समभारभरक्कंता तेण न पत्थर पुहई ।। १३१४॥ अत्थो समुहसोत्थो पुत्तो वि कयंतमंदिरं पत्तो । निप्पुन्नपवणपोओ जीवंतमओ कओ विहिणा ।। १३१५ ।। हा विहि हयास ! निक्किव ! अवरावरवसणदाणदुल्ललिय ! । अत्थेण न संतुट्ठो पुत्तो वि हु मज्झ अवहरिओ ।। १३१६ ।।
ओ अवगयामवायं नाऊण भणिया वेज्जेहिं धणसिरी- दंसेहिं पुत्तगं कहेहि जाणवत्तकुसलं । अन्नहा निरामय वाएण अभिभविस्सइ । तीए वि तहेव कयं । सत्थावत्थेण पुच्छिया तेण घरिणी । पिए! किं कारणं एयमलियनाडयं नचिज्जइ ?" भणियमणाए - - पिययम ! उवरोवरि रिद्धिसवणनद्रुमणं दट्ठूण तुमं एसा अलिया उप्पाइया वत्ता । १ बन्धुवगेषु जे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org