________________
काव्यकल्पलतावृत्तिः
रोहिण्याः सूता:-रोहिणीसुतः, रौहिणेय इत्यादि । बृहस्पती सुरेभ्यो गुरवः-सुरगुरुः, देवगुरुः, त्रिदशाचार्य, इत्यादि ।, सुरेभ्यो मन्त्रिणः-सुरमन्त्री, विबुधाऽमात्य इत्यादि । शुक्रे दैत्येभ्यो गुरवो मन्त्रिणश्च-दैत्यगुरुः, दानवाचार्यः, असुरमन्त्री दनजामात्य, इत्यादि । शनौ सूरेभ्यः छायायाः पुत्राः-सूरपुत्रः, शौरिः, छायापुत्रः, छायासूनुः । राहौ सिंहिकायाः सुताःमिविकासतः. सैहिकेय, इत्यादयः । वर्षायां मेघेभ्य: कालागमो-मेधकालः, मेघागमः, जलदागम, इत्यादयः । तपेभ्योऽत्ययः तपात्ययः, ग्रीष्मात्यय, इत्यादयः । शरदि घनेभ्योऽत्यय:-घनात्ययः, जलदात्यय इति । हेमन्ते हिमेभ्य आगमकालोहिमागमः, प्रालेयागम:, हिमकाल, इत्यादयः । एवं हेमन्तात्ययः, शिशिरात्ययो, वसन्तः, वसन्तात्ययो, ग्रीष्म इति ॥छ।
नभसि सुरेभ्यो मेघेभ्य उडुभ्यो वायुभ्यो मार्गा:-सुरमार्गः, मेघावा, उडुपथः, मरुदध्वा, इत्यादयः । मेधेभ्य आश्रयः-मेघाश्रयो, जलदाश्रय, इत्यादयः । करके मेघेभ्यो ग्रावाण:-मेघग्रावा जलदाश्मा इत्यादयः ।छ।।
अप्सरः सुस्वर्गेभ्यश्च स्वर्गिभ्यश्च वध्वो नार्यो गणिकाश्च-स्वर्वध्वः, स्वर्गिवध्वः, सुरवध्वः, सुरनार्यः, स्वर्नार्यः, स्वःस्त्रियः, स्वगिनार्यः, सुरस्त्रियः, स्वर्गणिकाः, स्वर्वेश्याः, सुरवेश्या; इत्यादयः । दवे वनेऽग्नयः-दवाग्निः, दववहि नः, काननाग्निरित्यादयः । अनिरुद्ध ऋष्यात् ध्वजा:-ऋष्यनामा मृगोध्वजोऽङकश्चिह्न अस्य-ऋष्यध्वजः, ऋष्याङकः, ऋष्यकेतरित्यादयः । उषायाः प्रिया[यः] उषा वाणसुता तस्याः प्रियः, उषाप्रियः, उषेशः, उषारमण, इत्यादयः ।।छ।।
प्रवीणे कृतकर्माथौं -कृतकृत्यः, कृतार्थः, कृती। चन्द्र हरिद्रायां रात्रिनामानि-रजनी, निशेत्यादयः । मते कथानामालेखायशोभ्य: शेषः । विमनसि दुरन्तविभ्यो मनाः दुर्मनाः, अन्तर्मनाः, विमनाः । लेखकक्षराच्चणजीवकचञ्चवः, सहायेऽनोर्जीविगामि वरप्लवाः पदातो पुरोऽग्रेभ्य: स पुरस्तोमगमगामिगाः । वेश्यायां पणपण्येभ्योऽङ्गनाः सूनावात्मने
ङ्गेभ्यश्च भूभवजन्मादयः । स एव स्त्रीत्वे दुहिता भ्रातृव्यसुताः, भागिनेये स्वसृभ्यः सुताः, पौत्रे पुत्रेभ्यः सुताः । एवं पितृष्वसृमातृष्वसृभ्यः, सुताः ॥छ।।।
उच्चैःश्रवसि देवेभ्योऽश्वाः केशरीपुरः प्रियाः । श्मशाने प्रेतात् परेतात् पितृतः । समानि वनानि च कौमद्या, इन्दभ्यो रुचः, विद्यति अचिरक्षणाभ्यां प्रभा । प्रभाते निशाभ्योऽत्ययः, प्रदोषे रजनीभ्यो, मुखं सन्ध्यायां, दिनेभ्योऽन्तावसानाविति। ध्वान्ते समावान्धेभ्यः तमसं, अवश्याये निशाभ्यो जलानि, बहुले कृष्णेभ्यः पक्षः, दर्श सूर्येन्दुभ्यः सङ्गमः अर्हति, तीर्थादधिपा: करः कृच्च जिनाधीशाः ।।छ।।
नपे पृथिवीमनुजप्रजाविश्वदेशेभ्यः पतयः । तथा पृथ्व्यादिभ्य:पाता, गोपायिता, गोप्ता, त्राता, भोक्ता च शाशि [सि]ता। नाथोऽधिपः परिवढो भत्रेशः, प्रभुरीश्वरः । इन इन्द्रो, विभुः स्वामी, राजा राट्, पतिरीश्वरः ।।छ।। षटपदी।
रामे रखोर्दशरथात्, कौश [स] ल्यायाः सुताः, जानक्या: प्रिया:, जानक्यां जनकात् धरणीभ्यः सुताः, लक्ष्मण सुमित्रायाः सुताः। रावणे रक्षेभ्यो लङकायाः पतयः, मन्दोदरीतः प्रियाः, दशाऽस्यकण्ठः, मेघनादे शक्रेभ्यो जितः[ताः] मन्दोदरीतः सूताः । युधिष्ठिरे धर्मात् सुकृतात्तपसः, सत्यात् सुताः, शल्यादरयः, भीमे वायुभ्यः सुता: ,हिडिम्बा बककिमरे कीचकेभ्यो रिपवः, अर्जुने शक्रेभ्यः सुताः, कपिभ्यो हनुमद्भ्यो ध्वजाः । सुभद्राया, उलूप्याश्चित्राङ्गदायाः प्रियाः नवातकवचकालिके यमकासुरकर्णेभ्यो रिपव: ॥छ।।
कृष्णायां पञ्चालाद् यज्ञसेनात् यज्ञात् नन्दिभ्यः पाण्डवेभ्यः प्रियाः, भीष्मे शान्तनोर्गङ्गाभ्यो नदीभ्यश्च सूताः, विप्रेभभ्यः सुराः अग्रद्विशब्दाभ्यां जन्मजजातयः, सांयात्रिके पोतेभ्यो, वणिक्केशेषु शिरोभ्यो, ऽजस्तबहलत्वे हस्तपक्षे पाशकलापभारोच्चयाः, अधरे दन्तेभ्योऽम्बरादिच्छदश्च, स्तनयोरुरसि, वक्षउस्तोज: कक्षायां, भुजेभ्यो मूलचचके स्तनेभ्यो मुखानि । स्वगुणैरुपमानैश्च सुन्दरादिपदैरपि ।
विशेष्यन्ते स्त्रियोऽङ्गानि क्रियाश्चाप्यभिधाकृते ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org