________________
काव्यकल्पलतावृत्तिः
तोयराशिः वाद्धिरित्यादि । दग्धार्णवः, क्षीरोदधिः, लवणार्गव:, दधिवारिधिः, घतसमद्रः, सुरावारिधिः, इक्षनीरधिः, स्वादुजलधिरिति सप्तार्णवाः । यदाहुः-लवणक्षीरदध्याद्यसुरेक्षुस्वादुवारयः । तथा चोक्तम्
लावणोरसमयः सुरोदकः सार्पिषोदधिजल: पय:पयाः ।
स्वादुवारिरुदधिश्च सप्तमस्तान् परीत्यत इमे व्यवस्थिताः ।।१।। का.क.
अब्धौ नदीभ्यो वारिभ्यः स्रोतसो यादसोऽधिपाः ।।६३।। अद्भ्यो निध्याशयौ राशिधिदुग्धादेः परेऽर्णवाः । गङ्गायाँ सिद्धात स्वःस्वगिनभोभ्यो निम्नगासमाः॥६४॥ जह नोः पुत्र्यः कालिन्द्यां कलिन्दादर्कादितः सुताः । कृतान्तेभ्यो भगिन्योऽपि रेवायां मेकलात्तथा ॥६५।। चन्द्रेभ्यस्तनयाः ताप्यां तपनेभ्यस्तनूद्भवाः । अब्जे . जलेभ्यः सरसः पंकाज्जन्मजस्ड्र हाः ॥६६॥ भृङ्गे पुष्पेभ्यो मध्वादेलिहः षट्शब्दतोऽङधयः। सर्व वातेभ्योऽशनाद्या द्विशब्दाद्रसनासमाः ॥६७।।
फणेभ्योऽपि धरादयः।
मयूरे नीलेभ्यः कण्ठाः भुजङ्गेभ्यो भुगादयः ।।६८॥ जलदेभ्यः सुहृत्तुल्या वृक्षे क्ष्माभ्यो जरुड.हा ।
जलवाहे जलेभ्यस्तु वाहो मृग्दो धरादयः ।।६९।। म.टी. गङ्गायामिति-सिद्धनिम्नगा, स्वगिनदी, स्वगितटिनी, नभोनदी, सिद्धधनी, स्वर्गापगा, त्रिदशतरङ्गिणी, व्योमस्रोतस्विनीत्यादि । जह नपुत्री, जहनुभवेत्यादि। अत्र स्वःसुराभ्रेभ्यो वापी, स्वर्वापी, सुरवापी, अभ्रवापीत्यादि। कालिन्द्यामिति-कलिन्द्रादेरियं कालिन्दी, कलिन्दसुता, कलिन्दतनयेत्यादि । अर्कसुता, सूर्याङ्गजेत्यादि । कृतान्तभगिनी यमस्वसेत्यादि । रेवायामिति-मेकलाद्रेर्जातत्वान्मेकलाद्रिजा, मेकलकन्या, चन्द्रतनया, इन्दुजेत्यादि । ताप्यामिति-तपनतनूद्भवा, तपनात्मजा, तपननन्दिनीत्यादि। अब्जे इति-जलजन्म, जलजं; जलरुट, जलरुहं; सरोजन्म, सरोजं; सरोरुट्, सरोरुहं; पङकजन्म, पङ्कजं; पङकरुट, पङकरुहं; नीरजन्म, वारिज, पयोजं, तोयरुहं, सरसीरुहमित्यादि। भङगे इति-पूष्पलिट मधुपः, मधुव्रतः, प्रसूनलिट्, इत्यादि । षडंह्निः, षट्पद, इत्यादि । सर्प इति-वाताशनः, पवनाशनः, वायुभुगि, त्यादि। द्विरसनः, द्विजिह्व, इत्यादि । दृक्श्रुतिः, चक्षुःश्रवा, दृग्विषः, इत्यादि । विषधरः, फणधरः; विषभृत्, फणभृदित्यादि। अत्र गृढा दहयः गृढपात्, गूढचरण, इत्यादि। मयूर इति-नीलकण्ठः, नीलग्रीवः, श्यामकण्ठ, इत्यादि। भुजगभुक, साशन, इत्यादि। जलदसुहृत् मेघसुहृदित्यादि। वृक्षे इति-नानः, मारुट, मारुहः, क्षोणीरुट्, क्षितिरुह इत्यादि । जलवाहे इति-जलवाहः, जलमुक, जलदः, जलधरः, नीरवाहः, तोयमक, पयोधर, इत्यादि । एवमिति-स्तबकोऽयं निगदसिद्धः समाप्त इत्यर्थः ।
अथ सूत्रोत्तीर्णाः केचिदन्येऽपि यौगिकशब्दा लिख्यन्ते। यथा-मङ्गले पृथिवीभ्यः सुता:-पृथ्वीसुतः, धरणीपुत्रः, कुजः, भौमः, माहेय, इत्यादि । बुधे चन्द्रेभ्य: सुता:-चन्द्रसूत:, चान्द्रमसेयनि: सौम्यः पिताऽपि सोमो देवताऽस्येति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org