________________
काव्यकल्पलतावृत्तिः
वज्रजित् इन्द्रजिदित्यादि । दैत्ये इति - दितिपुत्रः, दितिसूनुः, दैत्य, दानव, दितिजः, दनुज इत्यादि । देवरिपुः सुरारिरित्यादि । पृथिव्यामिति - अब्धिनेमी, अब्धिमेखला, अब्धि वसना, जलधिनेमिः समुद्रकाञ्चिः, सागराम्बरा इत्यादि । अत्र शैलेभ्यः आधारः शैलाधारः, पर्वताधारेत्यादि । मौले इति भूधर, भूधः क्षितिधरः, भूभृदित्यादि । उदयाद्राविति - उदयगिरिः पूर्वगिरिः, उदयाद्रिः प्राचीपर्वत इत्यादि ।
का. क.
૬૪
मृणाला नूंषि पुष्पेभ्यो बाणास्त्रधनूंषि च । शृङ्गारात्मभ्याँ संकल्पाच्चितेभ्यो योनिसन्निभाः ||५६ ||
Jain Education International
तार्येऽरुणेभ्योऽवरजा विष्णुभ्यो वाहनानि च । । विनतायाः सुपर्ण्याश्च काश्यपाच्च तनूद्भवाः ।। ५७ ।। सर्पेभ्योऽरयः पक्षिभ्यो नाथा वज्ज्रिमुखाज्जिताः । दैत्ये दितेर्दनोः पुत्रा देवेभ्यो रिपवस्तथा ।। ५८ ।।
पृथिव्यामब्धिभ्यो नेमीमेखलावसनानि च । शैले भूभ्यो धरा प्रोऽप्युदयाद्रावुदयस्तथा ।। ५९ ।। पूर्वादगिरयोऽस्ताद्रावस्तात्प्रत्यङ्मुखान्नगाः । हिमाद्रावुद हिमेभ्योऽद्रयोऽद्रिभ्योऽधिपास्तथा ॥ ६०॥
मेनकायाः प्रियसमाः पार्वतीभ्यो गुरुः पुनः । मलये दक्षिणाच्छैलाः कैलासे स्फ़टिकान्नगाः ॥ ६१ ॥ मेरौ स्वगिभ्यः स्वर्गेभ्यः सुवर्णेभ्योऽपि भूधराः । सूर्येभ्यः कान्ते सूर्येभ्योऽग्निभ्यो रत्नोत्पलादयः ॥ ६२॥ चन्द्रेभ्यः कान्ते चन्द्रेभ्यो मणयो दृषदोऽपि च ।
म. टी. अस्ताद्राविति - अस्तनगः, प्रत्यग्नगः, अस्ताद्रिः, पश्चिमाचलः, परमाचल, इत्यादि । हिमाद्राविति - उदगद्रिः, हिमाद्रि:, उत्तराचलः, तुषाराचलः, प्रालेयशैल, इत्यादि । अद्विपतिः, नगाधिप:, शैलराज इत्यादि । मेनकाप्रियः, मेनकावल्लभ, इत्यादि । पार्वतीगुरुः, गौरीगुरुरित्यादि । अत्र गौरीभ्यो जनकः गौरीजनकः, पार्वतीपितेत्यादि । हिमेभ्य आलय: हिमालय:, प्रालेयालय, इत्याद्यध्याहार्यम् । मलये इति -- दक्षिणशैलः, दक्षिणाचल: याम्याद्रिरित्यादि । अत्र चन्दनेभ्यो द्रयः चन्दनाद्रिः, श्रीखण्डाचल इत्यादि । कैलासे इति — स्फटिकनगः, स्फटिकाद्रिरित्यादि । अत्र धनदेभ्य आवास: धनदावासः गुह्यकेन्द्रावास इत्यादि । हरगिरिः, शिवशैल इत्यादि । मेराविति स्वर्गिभूधरः, स्वर्गपर्वतः सुवर्णाद्रिः, सुरशैलः, कनकाचल, इत्यादि । सूर्येभ्य कान्ते इति -- अत्रोद्देश्यवचनमपि यौगिक शब्दार्थं पृथग्विभक्तित्वेनोपन्यासात् सूर्यकान्तः रविकान्त इत्यादि । सूर्यरत्नं, सूर्योपलः; अग्निरत्नं, दहनोपलः; रविमणिः, सूर्याश्माज्वलनमणिः, ज्वलनाश्मेति । चन्द्रेभ्य कान्ते इति -- अत्राप्युद्देश्यवचनं यौगिक शब्दार्थमसमासेनोपन्यासात् चन्द्रकान्तः, शशिकान्त इत्यादि । चन्द्रमणिः, चन्द्रोपलश्चन्द्राश्मेत्यादि । अब्धाविति -- नद्यधिपः, वार्यधिपः, स्रोतोधिपः, यादोधिपः नदीपतिः, धुनीधवः पयः पतिः, पाथोनाथ, इत्यादि । अद्भ्य इति -- अपांनिधिः, जलधिः, जलाशयः, पयोराशिः, वारिनिधिः, नीरनिधिः, नीराशयः, ९. शब्द एषः पा.म. पुस्तके नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org